SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING: पालोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्न योगशास्त्रपरं मतम् ।। ३५६ ।। यस्मिन् ज्ञाने सर्वमिदं ज्ञानं भवति निश्चितम् । अस्मिन् परिश्रमः कार्यः किमन्यत् शास्त्रभाषितम् ।। ३५७ ।। हठप्रदी पिकां धत्ते शिवज्ञानकरं परम् । कथयन्ति च शृण्वन्ति सर्वपापैः प्रमुच्यते ।। ३५८ ।। हठप्रदीपिकां श्रुत्वा सिद्धान्तग्रन्थमुत्तमम् । त्यक्ता भ्रान्ति न शास्त्राणि सतां सद्यः परा गतिः ।। ३५६ ।। एवं मया समासेन हठयोगसमीरितम् । य इदं पठते पुण्यं परलोके महीयते ।। ३६० ।। योगशास्त्रमिदं गोप्यं शंभुना सूचितं पुरा । सुशिष्याय प्रदातव्यं योगज्ञानपरम्परा ।। ३६१ ।। एतत्पवित्र परमं योगज्ञानसमन्वितम् । ज्ञानं गुह्यतमं पुण्यं योगसंगृह्यतारकम् ।। ३६२ ।। उक्ते च सर्वशास्त्राणि सर्वविद्या च पूर्णताम् । आदिनाथयत्कृत्यं सर्वसारसमुद्धृतम् ॥ ३६३ ॥ इति तु सकलयोगशास्त्रसिन्धोः परिमथितावकृष्य सारभूतम् । अनुभवतु हठामृतं मयीन्द्रां यदि भवतामजरामरत्विछा (त्वेच्छा)३६४ ।।।। इति श्री सहजनाथशिष्येण श्रीस्वात्मारामयोगीन्द्रेण विरचितायां हठप्रदीपिकायां सिद्धांतमुक्तावल्यां षष्ठोपदेशः । इति । श्रीरस्तु । ____ श्रीमन्महाराजाधिराजजीश्रीजयसिंहदेवजीकस्याज्ञया लिखितमिदं तुलारामेण । संवत् १७६५ वर्षे चैत्र मासे कृष्ण पक्षे १० । श्रीरामो जयति । श्रीगणपतये नमः । 1545. प्रात्मबोधः प्रकाशिकाटीकोपेतः श्रीगणेशाय नमः। शतमखपूजितपादं शतपथमनसोप्यगोचराकारम् । विकसितजलरुहनेत्र सीताछायाङ्कमाश्रये रामम् ॥ १ ॥ इह भगवान् शङ्कराचार्य उत्तमाधिकारिणां वेदान्तप्रस्थानत्रयं निर्माय तदवलोकनासमर्थानां मन्दबुद्धीनामनुग्रहार्थ सर्ववेदान्तसिद्धान्तसंग्रहमात्मबोधाख्यं प्रकरणंदिदर्शयिषुः प्रतिजानीते । सपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् । मुमुक्षूणामपेक्ष्योयमात्मबोधो विधीयते ।।१।। COLOPHON: Post-Colophonic: Ct. OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy