SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 16 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) CLOSING: CLOSING: द्वाविंशतिसहस्राणि अष्टसप्ततितमे ब्राह्मणस्य च धर्मेण त्वया वै रक्षित इत्यतः पूर्व त्रयोविंशतिसहस्राणि ततः प्रबन्धः समाप्त्या चतुर्विंशतिसहस्राणीत्याहुः ॥२॥ 799. सुन्दरमणिसन्दर्भः OPENING: श्रीसहजावल्लभो जयतेत राम् इह खलु सकलजीवजीवातुचरितस्य विशिष्य प्रपन्नभक्तजनोज्जीवनाय परमपदावतीर्णस्य भगवतोऽथ श्रीरामन्द्रस्य सदुपास्यत्वं चिन्त्यते। तच्च सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः । निवासः सर्वसाधूनां प्रपन्नानां परा गतिः ॥ १ ॥ मानिां संश्रयश्चैव गुणानामेकभाजनम् । रक्षिता स्वस्य वंशस्य स्वजनस्य च रक्षिता ॥ २ ॥ सुन्दरो राम एवंको गुण रूपेण चामृतः । धाम्ना च परिवारेण लीलया चरितेन च ॥१॥ उक्तञ्च सीतयाप्येवं कविना मुनिनादिना । सुन्दराणां मणिर्यस्माद् रामोऽयं नरचन्द्रमाः ॥ २ ॥ गुणज्ञ रुच्यते भद्रो यः सुन्दरशिरोमणिः । सन्दर्भोप्येष तन्नाम्ना स्यात् सुन्दरशिरोमणिः ॥ ३ ॥ सर्वत्र स्खलितं त्वत्र क्षन्तुमर्हति कोविदा: । स्निग्धे च पिच्छिले वक्र नटोऽपि स्खलितो भवेत् ।। ४ ।। स्निग्धोऽथ पिच्छिलो रामो वक्रो गम्भीर उन्नतः। दुर्गमोऽपि कृपावश्यः सुखाराध्यस्ततो नृणाम् ॥ ५ ॥ लोकनाथ दयाम्भोधे गुणभुग्गुणिनायक । क्षमस्व जानकीभत रागोकारि मयेदृशम् ॥ ६ ॥ सुन्दरमणिरप्येष सतां कण्ठगतस्त्वलम् । प्रकाशं प्राप्य सर्वत्र सौभाग्यं ज्ञापयिष्यति ॥७॥ मधुराचार्यनाम्नैष गालवाश्रमवासिना। सुन्दराभिधसन्दर्भो भावशोधाय निर्मितः ॥ ८ ॥ सुखैश्वर्यरसज्ञत्वादनेन भगवान्मम । प्रीयतां जानकीजानी रामो रमयतां वरः ॥ ६ ॥ काव्यानां च रसानां च विद्यानां तपसामपि । आद्याय गुरवे भूम्ने वाल्मीकिमुनये नमः ।। १० ।। इति श्रीश्रीमन्मधुराचार्यविरचितं सुन्दरमणि म सन्दर्भः । COLOPHON: Post-Colophonic: संवत् १७७६ प्र० श्रावण वदी १२ शुक्र लिखित मिदं शुभं भवतु लेखकपाठकया। श्रीमन्मधुराचार्य परमगुरवे नमो नमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy