________________
प्रशस्त्यादिसंग्रहः । प्रथमादर्शालेखनप्रयत्नवरदयाविजयशिष्यस्य । धर्मोपदेशहेतुः सुवाच्यमाना चिरं नन्द्यात् ॥१५॥ इति ऋषिमण्डलटीका समाप्ता ॥
[807] अन्तः-श्रीमच्छासनं जैनोद्योतकारी जगद्गुरुः ।
सौधर्मगणभृन्मुख्यान् नमामि पुरुषानपि ॥१॥ राधिकापुरशृङ्गारशोभनं दुरितक्षोभणम् । सुरालय इव महान् श्रीनाभेयजिनालयः ॥२॥ श्रीनाभेयप्रसादेन श्रोतानामनुग्रहाय च । विजयचन्द्रो(न्द्र)भगवान्(वत्)चरित्रस्तबकः कृतः ॥३॥ गज-बाण शशि-कुम्भे(१८५८) मैत्रमाससुखाकरः । श्रीदाननिधेः शिष्येण स्वेनायं च समुद्धृतः ॥४॥ साहेति जीवणनाम्नो द्वौ पुत्रौ कुलदीपकौ ।
गोविन्दजी-हिमजीनाम्नो तयोरनुग्रहाय च ॥५॥
इति श्रीमद्विजयचन्द्रचरित्रेऽष्टधाजिनपूजागर्भितकथानकम् , सुविहितजनानां हिताय च श्रेयसे लेखक-पाठकयोः ।
संवत् १८८२ वर्षे आश्विनमासे कृष्णपक्षे १० तिथौ रविबासरे लिखितं श्रीचन्द्रावतीनगरमध्ये श्रीभट्टेवपार्श्वनाथजीप्रसादात् । सकलपण्डितशिरोमणि पं० दर्शनविजयजी-तशिष्यपं० मानविजयजीग०-तत्शिष्यपं० जयविजयजीग०-तशिष्यमुनिहीरविजयेन लिपीकृतम् ।
जिहां दू सायर चंद-रवी मेरु महीस्थित होय । तिहां प्रतपो परिवारयुत लेखक पाठक दोय ॥
[842] अन्तः- श्रीशत्रुञ्जयकरमोचनाद्यनेकसुकृतकारिमहोपाध्यायश्री ५ श्रीभानुचन्द्रगणिप्रकटप्रकृष्टपट्टोदयाचलसूर्यानुकारिसकलवाचकपरम्परामौलिमुकुटसदृशश्रीमत्शाहिप्रदत्तखुसफहमविरुदधारिवाचकश्रीसिद्धिचन्द्रगणिशिष्य-गणिरूपचन्द्रेण लिपीकृता श्रीतपागच्छसत्कपट्टावलीयं निजविलोकनकृते ॥ संवन् १६८५ वर्षे आषाढवदि एकादशीवासरे सकलपुरवरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org