________________
९०]
आ० श्रीविजयक्षान्तिसुरीणां हस्तप्रतिसंग्रहे श्रीवर्धमानजिनवरचरणाग्रनखांशुदीपिकावृत्तिः । मम मतितिमिरविनाशं समूलकाषं चरीकुरुताम् ॥१॥ पञ्चमगणधरवंशे कोटिकसाधोः सुविस्तृते गच्छे । वज्राभिधशाखायां चन्द्रमुनेः सत्कुले चान्द्रे ॥२।' वन्देऽत्र मानदेवं श्रीमन्तं मानतुङ्गसूरिवरम् । वनवासियशोभद्रं विक्रमसूरि विशालगणिम् ॥३॥ वन्दे देवाचार्यं कृतस्थिति नेमिचन्द्र-मुनिचन्द्रम् । श्रीमभयदेवगुरुं जिनवल्लभमेकजिनदत्तम् ॥४॥ पट्टानुक्रमजाताः श्रीजिनमाणिक्यसूरिसूरीन्द्राः । खरतरगच्छाधीशाः राहडवंशे ततोऽभूवन् ॥५॥ कुमतकदाग्रहनिरसनसुबद्धकक्षाविशिष्ट पक्षधराः । भूपतिपूजितपादः प्रतिबोधितसबलयवनजनाः ॥६॥ अकबरसाहिपरीक्षाप्रदत्तयोगप्रधानपदबिरुदाः । शिष्य-प्रशिष्यशाखासंशोभितचरणभूमिरुहाः ॥७॥ श्रीजिनचन्द्रयतीन्द्रा तेषां शिष्याः परेशताः सन्ति । तेषु प्रथमे शिष्या विख्याताः सकलचन्द्राख्याः ॥८॥ तेषां मुख्याः शिष्याश्चतुर्थपरमेष्ठिनः कलाचतुराः । कलिकालकालिदासाः कू लिसरस्वतीरूपाः ॥९॥ श्रीसमयसुन्दराह्वाः तेषां शिष्यः प्रशस्तहस्तकृतः । प्राग्वाटवंशरत्नः धर्मस्त्रीमज्जिकासूनुः ॥१०॥ मालापौत्रो मुख्यः वाचकवरहर्षनन्दनो वादी । ऋपिमण्डलसंबन्धानलिखत् स्तोकयत्नेन ॥११॥ गुरुसंप्रदायनिर्मितटीकायां ललितसंस्कृताख्यायाम् । श्रुतिदेवी-मतिदेवी सांनिध्यं तत्र कुर्वाताम् ॥१२॥ चतुरुत्तरसप्ताधिकदशशतवर्षेष्वतीतपूर्वेषु । विक्रमनगरे विजयिनि श्रीमच्छ्रीकर्णसिंहपे ॥१३॥ खरतरगच्छाधीश्वरजिनसागरसूरिनामके जयिनि । वृत्तिरियं संपर्णा वसन्तमासस्य पञ्चम्याम् ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org