________________
प्रशस्त्यादिसंग्रहः ।
यावन्महीमण्डलमध्यवर्ती मेरुवियत्यर्यम- चन्द्र-तारा । तावच्चिरं तिष्ठतु, वाच्यमानं चरित्रमेतच्छ्रतिसौख्यकारि ॥२३॥ इह यल्लिखितमशुद्धं प्रमादतो बुद्धिमान्द्यतो वाऽपि । तच्छोध्यं विबुधवरैः कृपापरैर्मयि कृपां धृत्वा ||२४| एतच्चरित्रममलं पठतां लपनेन शृण्वतां श्रवणैः । भव्यजनानां भावुकततयः संबोभवतु सततम् ||२५|| आचार्यहरिभद्रमुनीश्वरवरकृत्यनुसारतो हि विपरीतम् । लिखितं प्रमादतस्तन्मम मिध्यादुः कृतं भवतु ॥२६॥ संवत् १८८४ रा शाके १७४९ का मासोत्तममासे मिगसिरमासे कृष्णपक्षे तिथौ षष्ठयां भृगुवासरे सवाईजैयनगरमध्ये पं० चक्रपाणलिखितं श्रीसुपारसनाथजीप्रसादात् । श्रीरस्तु | कल्याणमस्तु ॥
[ ८९
[797]
अन्तः -- अत्र धर्मघोष इति सूत्रकर्तुर्नाम, तत्संबन्धश्चायम् - अत्रैव चित्रकूट - नगरे धर्मघोषगच्छे विद्यानन्दसूरयः अतीवपण्डिताः, सूरिमन्त्रत्रिलक्षजापकरणतः वशीकृतः पृथिवीपीठाधिपदेवताः वन्दनार्थं समागतेन मोकलराणाभिधानेन मेदपाटराजेन श्राविकाकृतगुहलीं दृष्ट्वा गुरवः पृष्टाः इदं किम् ? गुरवः प्राहुः - तन्दुलाः कौङ्कुमं जलं च । राज्ञा उक्तमद्य मया सकटकेन इदमेव भक्ष्यम् । गुरुभिरुक्तं यथेष्टं भुज्यताम् । ततो गुरुणा गौतमस्वामिमन्त्रेण मन्त्रिताः तन्दुलाः कटकभोजनेऽपि न क्षीणाः इति विद्याचमत्कृतः मोकलराणः श्रीचित्रकूटे श्रीपार्श्वनाथप्रासादं चकार । तस्य शिष्यो धर्मघोषः यथार्थनामा वैराग्यवान् साधुक्रियानिष्ठः एकान्ते सर्वदा स्वाध्यायं करोति । तन्नगरे शङ्कर श्रेष्ठी श्रीसंघमुख्यः जीवाजीवादितत्त्ववित् उपलब्धपुण्यपापः परिज्ञातास्रव - संवरः विज्ञातबन्ध - मोक्षः विजयाभिलाषी गुरुगच्छरागी जिनशासनोन्नतिकारकः प्रत्यहं प्रभाते सन्ध्यायां च सामायिकं करोति, तदानीमत्याग्रहेण सामायिके स्वाध्यायार्थं नवोनं किञ्चित् प्रकरणं कुरु (वि)ति, तदानीं गुरुणा धर्मघोषः समादिष्टः ऋषिमण्डलनामकं प्रकरणमकरोत् । शङ्कर श्रेष्ठयपि पठित्वा प्रत्यहं सामायि पठति, सहस्रप्रतय (ती :) लिखित्वा लेखयित्वा सकलगच्छ्वासिनां ददौ ।
अत्र केचित् साधुसंबन्धाः प्रसिद्धाः केचिदत्यन्तमप्रसिद्धाः ते सर्वेऽपि शास्त्रानुसारेण अविच्छन्नसुगुरुसंप्रदायेन च लिखिताः ॥
प्रशस्ति १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org