SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ८०] आ० श्रीविजयक्षान्तिसुरीणां हस्तप्रतिसंग्रहे [692 ] अन्तः-- श्रीभक्तिलाभशिष्येण चारुचन्द्रेण गुम्फिता । चारित्रसारगणिना शोधिता हितकारिणा ॥१॥ बालत्वेऽपि कथा चेयमभ्यासार्थं कृता मया । बालावस्थाकृतं सार्वमहतां प्रीतये भवेत् ॥२।। सुपात्रदानमाहात्म्यप्रकाशे ये परायणाः ।। श्रीउत्तमचरित्रस्य कथेयं नन्दताच्चिरम् ॥३॥ श्रीउत्तमचरित्रकथा समाप्ता ॥ __ [700] अन्तः-श्रीमत्तपागणनभोऽङ्गणसूर्यकल्पश्रीसोमसुन्दरक्रमपद्मभङ्गः । भव्याङ्गिबोधविधये सुगमार्थपद्यैश्चक्रे कथानकमिदं जिनकीर्तिसूरिः ॥ इति पालगोपालकथानकम् । लिखितं ईदलपुरे ॥ [711] अन्तः-श्रीमद्वाचकराजराजिविलसत्प्रज्ञाप्रकर्षोदयाः श्रीमन्तो विमलादिहर्षगुरवः स्याता गुणश्रेणिभिः । सूक्तालीरुचिरं कथानकमिदं शीलप्रथाबन्धुरं __ स्वस्यानन्दकृते जयादिविजयश्चके तदीयः शिशुः ॥ इति श्रीतपागच्छाधिराजश्रीविजयसेनसूरीश्वरराज्ये महोपाध्यायश्रीविमलहर्षगणिचरणाम्भोजभृङ्गायमाणपण्डितश्रीजयविजयगणिना स्ववाचनकृते शीलवते शीलवतीकथा निर्मिता सद्भिर्वाच्यमाना नन्दतात् । शुभं भवतु ॥ [718] अन्तः- श्रीविक्रमादित्यनरेश्वरस्य चरित्रमेतत् कविभिर्निबद्धम् । पुरा महाराष्ट्रवरिष्टभाषामयं महाश्चर्यकरं नराणाम् ॥१॥ क्षेमङ्करेण मुनिना वरगद्य-पद्यबन्धेन युक्तिकृतसंस्कृतबन्धुरेण । विश्वोपकारविलसद्गुणकीर्तनाय चक्रे चिरादमरपण्डितहर्षहेतुः ॥२॥ ग्रन्थाग्रम् ११३० । संवत् १४७९ वर्षे राणपुरग्रामेऽलेखि ॥ [719] अन्तः-श्रीतपागच्छनायकश्रीदेवसुन्दरसूरिशिष्यपण्डितक्षेमङ्करगणिकृता सिंहासनद्वात्रिंशिका । लिखिता श्रीसोमसुन्दरसूरि-शिष्यमहोपाध्यायश्रीसाधुराजगणितच्छिष्य पं० विबुधशिरोरत्न पं० नन्दिरत्नगणि-तच्छिष्यसहजरत्नगणिना स्वपरोपकाराय। भद्रं भवतु संघाय । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy