________________
प्रशस्त्यादिसंग्रह।
[685] अन्तः--श्रीऊकेशिगणे गुणौधरुचिरे श्रीफक्कसूरिर्गुरु
___ स्तच्छिष्यो मतिसुन्दरः श्रुतनिधिविद्वानभून्निर्मलः । तच्छिष्यो मुनिदेवसुन्दर इतष्टीको व्यधाद् यां नवां तस्यां श्रीउपदेशदानचरितस्याभूत् तृतीयं शतम् ॥
[688] अन्त--- जयति भुवनैकसूरः सर्वत्राविहितकेवलालोकः ।
नित्योदयः स्थिरस्तापवर्जितो वर्धमानजिनः ॥१॥ श्रीवीरवक्त्रात् त्रिदशीमवाप्य यो द्वादशाङ्गी विमलां चकार । स्वामी सुधर्मा सकलर्षिशास्ता जीयात् स्वकीयान्वयवृद्धि कर्ता ॥२॥ चान्द्रे कुले श्रीविधिपक्षगच्छस्तत्राभवत् साधुपधर्ममूर्तिः । तदीयपट्टे शिवसिन्धुसूरिस्तत्स्थानके श्रीअमराब्धिसूरिः ॥३॥ तत्पट्टाम्बुजभास्करा भृशधियो दुर्वादिदन्तावलं
हर्यक्षा उपकेशवंशजनुषो रोषादिदोषद्विषः । निर्णीतागमशब्दशास्त्रविषया उद्योगिनोऽध्यापने
विद्यासागरसूरयो युगवरा विश्वप्रियाः स्वर्ययुः ॥४॥ तत्पदाम्भोजमधुपः सूरिश्रीउदयोदधिः ।। स्नात्रपञ्चाशिकाग्रन्थं रचयामास हर्षतः ॥५॥ वर्षेऽब्धि-स्वाहीन्दु(१८०७)मिते सुरम्ये श्रीपोषमासे च वलक्षपक्षे । श्रीपूर्णिमायां शशिवासरे च श्रीपादलिप्ताख्यपुरे सुराष्ट्रे ॥ श्रीयोगविमलसाधोस्तथा श्रीदर्शनाम्बुधेः । अभ्यर्थनया रचितो ग्रन्थोऽयं बोधिलब्धये ॥७॥ श्रीमालिवंशे गुरु - देवभक्तः कीकासुतः सा कचराभिधानः । तदीयसंघेन समं च यात्रां कुर्वन् कृतोऽयं जिनराजभक्त्यै ॥८॥ यावल्लवणसमुद्रो यावन्मेरुमहीधरः । यावच्चन्द्रादित्यौ तावन्नन्दत्वयं ग्रन्थः ॥९॥ अर्हन्तो मङ्गलं मे स्युः सिद्धाश्च मम मङ्गलम् । साधवो मङ्गलं मे स्युः जैनो धर्मोऽस्तु मङ्गलम् ॥१०॥ इति प्रशस्तिः समाप्ता ॥ श्रीआदीश्वरप्रसादात् । संवत् १८०७ वर्षे आषाढमासे शुक्लपक्षे तृतीयातिथौ सोमवासरे श्रीराजनगरमध्ये लिपीकृतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org