________________
७८]
आ० श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे अभूतां तनयो यस्याः श्रियः क्रोडावतंसकौ । आद्यो विजयपालाख्यो पृथ्वीपालस्ततोऽपरः ॥१६॥ आद्या शङ्गारदेवीति राणकस्याभवत् प्रिया । लीलुकाऽजनि तत्पुत्री पवित्रमतिशालिनी ॥१७॥ यशोदेवी द्वितीया च यशःकुमुदचन्द्रिका । जज्ञिरे गुणिनो यस्यास्तनयाः सुनयास्त्रयः ॥१८॥ आद्यो वाग्भटनामाऽभूत् त्यागलाल समानसः । श्रितवासश्रियोऽभुवन् यदीययशसा दिशः ।।१९।। विश्रामधामकीर्तीनां रत्नपालो द्वितीयकः । अभूत् सा०धनपालाख्यस्तृतीयः श्रीनिकेतनम् ॥२०॥ जयतलदेवीमाद्यस्तेजलदेवी तथा परो विधिना । उपयेमे पुनरपरः सुयशाः सौभाग्यदेवी च ।।२१।। पत्नी सोमलदेवी च तृतीया मन्त्रिणोऽभवत् । शाला विशदशीलस्य क.............
[668 ] अन्त-संवत् १५१६ वर्षे मागसर शुदि ५ दिने नलग(१क)च्छवासिप्राग्वाटवंशसाहदेशाल-भार्यादेल्हणदे-सुत सा० लीबाकेन भार्यासाणी-पुत्रलालापुत्रीइलाषू भग(गि)नी धनी भ्राता हापा भार्या गुरी पुत्र गोपा-महिपा-झांझण-कुइरि समस्तकुटुम्बयुतेन पञ्चम्युद्यापनार्थ पञ्चग्रन्था लिखापिताः, तपागच्छाधिराजश्रीसोमसुन्दरसूरि-शिष्यसोममङ्गलगणिभिः नन्दिमङ्गलगणीनामर्पिता ॥
[683] ___ अन्तः-संवत् १८८० वर्षे शाके १७४६ प्रवर्त्तमाने महामाङ्गलिकप्रदमासोत्तममासे वैशाखमासे कृष्णपक्षे चतुर्दश्यां तिथौ बुधवासरे लिखिता । सकलपण्डितशिरोमौलिमुकुटायमानमहोपाध्यायश्रीधर्मसागरजी-तच्छिष्यचरणसेवितप्रवरपण्डितशिरोरत्नपण्डित-श्रीकुशलसागरजी-तच्छिष्यमौलिमुकुटायमानपं० श्रीउत्तमसागरजीतच्छिष्यचरणसेवकप्रवरपण्डितश्रीकान्तिसागरजीगणिशिष्य-प्र० पं० श्रीइन्द्रसागरजीतच्छिण्यप्र०पं० उदयसागरजीगणि-तच्छिष्यपं० श्रीसुमतिसागरजी तच्छिष्यपं० विवेकसागरजीगणिनाऽलेखि, काननपुरनगरे ॥
नाम ठाम गुर देव अरु अख्यर जे लोपंत । ते नर जनम जनम लग कुंभि नरक पडंत ।। श्रीपार्श्वनाथजीप्रसादात्, श्रीकल्याणमस्तु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org