SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। [७७ दादाकः समभूत् ताभ्यां नवीनः कोऽपि नीरधिः । गुरोः कलानिधिर्येन मुक्तसङ्गो न जातुचित् ॥५॥ कान्ता बालमतिस्तस्य बभूव विलसद्गुणा । शीलशाला विशालाऽपि या चित्रं स्तम्भवर्जिता ॥६॥ श्रीसज्जनोऽजनि तयोः प्रथमस्तनूजो लीलावतीललितदुर्ललिताङ्गयष्टिः । तच्चापलं किल विमोचयितुं गुणैः स्वै लक्ष्मीर्निबध्य विधृता ध्रुवमेव येन ॥७॥ शोभाभिधानस्तदनन्तरोऽभूद् गिरो गुरूणामनिशं विकस्वराः । श्रोत्रावतंसश्रियमादधानाः पुष्णन्ति लक्ष्मीललितानि यस्य ॥८॥ गुणश्रेणीमुक्तावलिकलनलीलाञ्चिततनु स्तृतीयः श्रीवीरः समजनि कलाकेलिवसतिः । यशोहंसो यस्योत्तमनिखिललोकस्फुरदुरः सरःकोडे क्रीडन्मुदमकृत केषां न कृतिनाम् ? ॥९॥ . इतश्च अत्रैव वंशे संजज्ञे जज्जुको महिमास्पदम् । श्रेयसी प्रेयसी तस्य वीजीति समजायत ॥१०॥ श्रीवीरकाऽजायत तत्तनूजा सुधां सवन्ती स्वकरैः स्वगोभिः । विभर्ति या सोमकला विचित्रं न वक्रभावं न भवाभिषङ्गम् ॥११॥ अथ दोषात्ययशुद्धां पूर्वामिव वीरका मिमामुदितः । भानुरिव वीरनामा प्रभानिधिः प्रणयिनीमकरोत् ॥१२॥ प्रबुद्धमतिवैभवः स्फुरदगण्यपुण्योदय स्तयोरजनि राणकः सुतशिरोमणिर्विश्रुतः । यदीयगुणसंकथा सकललोकवक्त्राङ्गणे प्रभृत्यतिसुहृजनप्रथितसम्मदं सर्वदा ॥१३॥ व्ययकरणव्यापारं यः कुर्वाणोऽपि पत्तनेऽद्यापि । निजशुद्धबुद्धिवशतो राजश्रीवृद्धिमातनुते ॥१४॥ अपरा चन्दुका जज्ञे तनया विनयास्पदम् । गुणग्रामलसद्धाम विपद्ववल्ली कुठारिका ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy