SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ७६] आ० श्रीविजयक्षान्तिसुरीणां हस्तप्रतिसंग्रहे लोकानन्दपयोधिवर्धनवशात् सवृत्ततासंगतेः सौम्यत्वेन कलाकलापकलनात् श्लाघ्योदयत्वेन च । ध्वस्तध्वान्ततया ततः समभवंश्चन्द्रान्वयं सान्वयं कुर्वाणाः शुचिशालिनोऽत्र मुनिपाः श्रीशीलभद्राभिधाः ।७।। निःसंख्यैरपि लब्धमुख्यगणनैराशाविकाश सतां कुर्वाणैरपि संकटीकृतदिगाभोगैर्गुणिप्रीणकैः । श्वेतैरप्यनुरञ्जितत्रिभुवनैर्येषां विशालैर्गुणै चित्रं कोऽपि यशःपटः प्रकटितः श्वेतो विचित्रैरपि ॥८॥ सत्तर्ककर्कशधियः शुचिशुद्धबोधाः सुव्यक्तसूक्तशतमौक्तिकशुक्तिकल्पाः । तेषामुदारचरणाः प्रथमाः सुशिष्याः सद्योऽभवन्नजितसिंहमुनीन्द्र वर्याः ॥९॥ तेषां द्वितीयशिष्या जाताः श्रीमद्धनेश्वराचार्याः । सार्धशतकस्य वृत्तिं गुरुप्रसादेन ते चक्रुः ॥१०॥ शशि-मुनि-पशुपति(११७१) संख्ये वर्षे विक्रमनृपादतिक्रान्ते । चैत्रे सितसप्तम्यां समर्थितेयं गुरौ वारे ॥११॥ युक्तायुक्तविवेचन-संशोधन-लेखनैकदक्षस्य । निजशिष्यस्य सुसाहाय्याद् विहिताऽसौ पार्श्वदेवगणेः ॥१२॥ प्रथमादशैं वृत्तिं सम... [660] अन्तः--इति पद्मचरित्रं समाप्तमिति । मङ्गलं महाश्रीः ॥ अत्यद्भुतोन्नतिविराजिनि यत्र राजा प्राप्ते क्रमेण घनमूज्जितमण्डलश्रीः । छत्रश्रियं दधदधात् पदसंन्निवेशं श्रीभिल्लमालवसतिः स समस्ति वंशः ॥१॥ तत्र भूधरधरावतंसके धर्ममूर्तिरजनिष्ट जंबकः । अत्यजद्भिरपि यद्गुणग्रहं मार्गणैर्बत गतं दिगन्तरे ॥२॥ बभूव शाखिनस्तस्य नेढाकः सत्फलं सुतः । कृता येनोन्नता चित्रं शाखा वृद्धिमुपेयुषा ॥३॥ दयिता समभूत् तस्य शुद्धबुद्धिनिधिः प्रिया । सच्छाया कल्पशाखाऽपि नैव या विपदास्पदम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy