SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । प्रवचनसारोद्धारश्रियः समस्ताङ्गसङ्गसुभगानाम् । स्यात् तद्विचारचर्चा तेषामेषा प्रमोदाय ॥६॥ प्रवचनसारं सारं विषमपदार्थावबोधतः सत्यम् । उदयात् सवितुर्विश्वविद्यमपि सजीवमाभाति ॥७॥ सर्वप्रकारसाहाय्यकारिणः क्षान्तिशालिनः । जयप्रभस्य कृतिनः प्रयत्नादेष निर्मितः ॥८॥ अवधानवन्ध्यबुद्धिर्यदत्र न समञ्जसम् ।। उक्तवानहमुत्सूत्रं तत्र मिथ्याकृतं मम ॥९॥ यद्वा यदत्र किञ्चित् तनुमतिभिर्दोषमुदितमस्माभिः । प्रीतास्तद्धीमन्तः सन्तः कुर्वन्तु निर्दोषम् ॥१०॥ ग्रन्थाग्रम् ३३०३॥ [ 651 ] अन्तः- शास्त्रान्तरेषु परिवीक्षितमर्थजातं __ प्रायो मया विवृतमत्र न तु स्वबुद्धया । यत् स्यात् तथापि ननु सूत्रविरुद्धमुक्तं तत् सूरिभिर्मयि कृपाकलितैर्विशोध्यम् ॥१॥ यस्माद् गभीरतरसूक्ष्मपदार्थजाते छमावृतस्य नितरां विदुषोऽपि बुद्धिः । प्रायः स्खलत्यदृढशास्त्रपरिश्रमाणां कर्मोदयाज्जडधियां किमु मादृशानाम् ॥२॥ संपूर्णनिर्मलकलाकलितं सदैव जाड्येन वर्जितमखण्डितवृत्तभावम् ।। दोषानुषङ्गरहितं नितरां समस्ति चान्द्रं कुलं स्थिरमपूर्वशशाङ्कतुल्यम् ॥३॥ तस्मिंश्चरित्रधनधामतया यथार्थाः संजज्ञिरे ननु धनेश्वरसूरिवर्याः । नीहारहारहरहासविकाशिकाश-संकाशकीर्तिनिवहैर्धवलीकृताशाः ॥४॥ ये निःसंगविहारिणोऽमलगुणा विश्रान्तविद्याधर व्याख्यातार इति क्षितौ प्रविदिता विद्वन्मनोमोदिनः । ये तुष्टा विजनेषु सांप्रतमपि ते प्राप्तोपमाः सर्वत स्तेभ्यस्तेऽजितसिंहसूरय इहाभूवन् सतां संमताः ॥५॥ उद्दामधामभवजन्तुनिकामवामकामेभकुम्भतटपाटनसिंहपोताः । श्रीवर्धमानमुनिपाः सुविशुद्धबोधाः तेभ्योऽभवन् विशदकीर्तिवितानभाजः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy