________________
७४]
आ० श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे श्रीमहिमराजसुदयोदया दयासागरा वरा विद्वांसः । श्रीज्ञानमन्दिराबास्त्रयोऽप्यमी वाचकवतंसाः ॥५॥ श्रीदेवदेवतिलकोपाध्यायाश्चक्रवर्तिनो विज्ञाः । तच्छिष्यानूचानाः श्रीमन्तो विजयराजाह्वाः ॥६॥ वाचंयमजननिकरे कोटीरसमाः समागमार्थज्ञाः । तच्छिष्यपद्ममन्दिरगणिरर्थप्रदीपमिमम् ॥७॥ बालावबोधमकरोद् विबुधबोधाय निजकवित्व]वृद्धयै । यदशुद्धमत्र किञ्चित् तज्ज्ञैः शोध्यं घृणावद्भिः ॥८॥ सुगुणगणिकनकसारो मेहाजलसाधु-साधुरिणमल्लौ । लिखन-सुशोधनकर्मण्येते साहाय्यकर्तारः ॥९॥ विषमपदार्थपूर्वसाहहमीरोपरोधतश्चक्रे । तत एतर्हि समग्रोऽभ्यर्थनयाऽलेखि साध्वीनाम् ॥१०॥ वर्षे शशि बाण-रसा-त्रिदिग्गजमाने(१५१३)सहः सितपक्षे । लक्ष्मीपत्रे वारे गुरौ च पूर्णीकृतो ग्रन्थः ॥११॥
इति श्रीप्रवचनसारोद्धारसंपूर्णम् ॥ सं० १८३७ प्रमिते कार्तिकमासे बहुलपक्षे तृतीयातिथौ भौमवारे इदं(यं) पुस्तिका संपूर्णा । पं. कीर्तिहेम लिपीकृता श्रीपाटोधीमध्ये चतुर्मास्यां चक्रे ।
[631 ] अन्तः- सपादलक्षक्षोणीशसमक्षं जिनवादिनाम् ।
श्रीधर्मघोषसूरीणां पट्टालंकारकारकाः ॥१॥ त्रिवर्गपरिहारेण गद्यगोदावरीसृजः । बभूवुर्भूरिसौभाग्याः श्रीयशोभद्रसूरयः ॥२॥ स्व-परसमयज्ञानप्रीतप्रकृष्टजगज्जना
श्चतुरवचनामोदापृष्टाममरेशगुरुप्रभाः । अभिनृपसभं गङ्गागौरप्रनर्तितकीर्तय___स्तदनु महसः पात्रं जाता रविप्रभसूरयः ॥३॥ एवं प्रवचनसारे तच्छिष्यलवश्चकार टिप्पनकम् । श्रीउदयप्रभसूरिविषमपदार्थावबोधाख्यम् ॥४॥ इह सन्ति तेऽपि सिद्धान्तसिन्धुपारीणबुद्धयः । सुधियः हृद्यात्मभुवां येषां कौसुम्भरत्नायते विश्वम् ॥५॥
स्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org