________________
६८ ]
___ आ. श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रह तत्पट्टेऽत्र जिनेश्वरो गुरुरभूच्चौलुक्यचूडामणि
श्रीमदुर्लभराजराजसमिती यस्योग्रया हष्कया । कम्प्राणां प्रतिवादिनां प्रविगलत्स्वेदोदबिन्दुच्छला.
न्निःसत्रुस्त्वरितं विषादत इवाङ्गेभ्यः सुविद्यालवाः ॥२॥ ध्वान्तं हतं खलु जगत्यपि हन्यतां ना
दयन्तरं सदसतोरपि दर्यतां नः । उष्णद्युतस्तदपि भानुमता न लेभे
यस्योपमाऽभवदसौ जिनचन्द्रसूरिः ॥३॥ ततोऽनु जज्ञेऽभयदेवसूरिर्वृत्तिः कृता येन नवा नवाझ्याः । इतीव सेव्येयमभूद् ययेत्थं स्वसेविनां निर्वृतिदायिका च ॥४॥ विद्यामाभवतात् कुला जननिवाग्देवि त्वमाश्वासयै--
. ता घातस्त्वमिमां प्रबोधय गिरं ब्रह्मन् ! स्वयं मा मुहः । आसीनोऽभयदेवसूरिमुनिराट्पट्टे जगदल्लभः
सूरिः श्रीजिनवल्लभः स्वरसतः सिद्धं च एवेप्सितम् ॥५॥ तत्पट्टे जिनदत्तसूरिरभवन्मार्तण्डचण्डप्रभौ
___ यस्मिन् विष्टपशर्मणे तत इतः स्वच्छन्दतः भ्राम्यति । तज्ज्योतिर्गलहस्तिताघनतमःपिण्डा इव द्विड्गजा
जग्मुर्दिक्षु विदिक्षु मढ़वभिभवं वक्तुं नु दिग्दन्तिनाम् ॥६॥ कन्दपेऽपि न रूपमीदृशमिदं तेजो न सूर्येऽप्यसौ
वीणायामपि न ध्वनिर्न च कला चन्द्रेऽपि चैवंविधा । धात्रा तत् कथमेष ईदृगजनीत्याशङ्कि लोकैश्चिराद्
यं दृष्ट्वा जिनचन्द्रसूरिस्थ सोऽभूत् तत्पदद्योतकः ॥७॥ येषां गीर्वाणवाणीलहरिभिरभितः प्रेर्यमाणाऽखिलाऽपि
श्रीपृथ्वीराजपृथ्वीपतिसमितिरिहाश्चर्यसिन्धौ ममज्ज । चित्रं तत्रापि शत्रोर्वपुषि ववृधिरे तर्षमालिन्यतापाः
पापानां किमेतजिनपतिगुरवस्तेऽथ पट्टे बभूवुः ॥८॥ अथ जिनेश्वरसूरिरिदं पदं सदमलंकुरुतेऽर्थ इवाद्भुतः । यदुपदेशगिरं विबुधाः सुधालहरितोऽप्यधिक बहु मन्वते ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org