SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अन्तः प्रशस्त्यादिसंग्रहः | [552] श्रीमान् जगद्गुरुरिति प्रथितो धरैकवीरः स हीरविजयाभिधसूरिरासीत् । श्रीमत्त पागणपयो रुह भानुमाली यः प्रत्यबोधयद कब्बरभूमिपालम् ॥ १ ॥ तत्पट्टभूषणमणिर्गणिलक्ष्मिकान्तः सूरिर्वभौ विजयसेन विभुः प्रतीतः । निश्शेषवाङ्मयमहोदधिपारदृश्वा विश्वोपकारकरणैकनिबद्धकक्षः ||२|| तत्पट्टे सुविहितमुनिसंघेनाराधितो जगत्पूज्यः । निश्शेषसूरितिलकं सूरिर्विजयतिलकगुरुरासीत् || ३ | तत्पट्टे विजयन्ते युगप्रधानोपमानमहिमानः । विजयानन्द निदानं श्रीविजयानन्दसूरीन्द्राः ॥४॥ तेषां सुविहितमुनिगणसितच्छदा सेवितांहिकमलानाम् । सुगुरूणामादेशान्निरुपम सौभाग्यभाग्याणाम् ||५|| किञ्च, Jain Education International श्रीविजयदानसूरीश्वर शिष्याः ख्यातं चारुकीर्तिभराः । श्री विमलह वाचकमुख्या आसन् जगन्मान्याः || ६ || तच्छिष्य मौलिमणयो निजधिषणापाटवानुकृत धिषणाः । श्रीमुनिविमलाह्वाना वाचक तिग्मांशवोऽभूवन् ॥७॥ एषां स्वीयगुरूणां प्रसादश्चापि शास्त्रवर्णानाम् । अनुसन्धानं कृत्वाऽलिखदित्थं भावविजयगणिः ||८|| निधि-मुनि-रस- शशि (१६७९) सिमन्तवर्षे श्रीकर्पटवाणिज्ये नगरेऽभूदयमुपक्रमः ||९|| अनेकशास्त्रार्थविचारसंग्रहे निरस्तदुर्बुद्धिकदाग्रहग्रहे । यदूषणं स्यात् तदपास्तविग्रहैः संशोधनीयं विबुधैः सदाग्रहैः ॥१०॥ श्रीशंखेश्वरपार्श्वनाथम हिमप्रत्यूषलब्धोदय श्चञ्चच्छास्त्र विचारचारुकिरणो निश्शेषदोषापहः । श्रीविक्रमार्कभूमिधरात् । [ ६७ श्रीमत्पूर्वमुनीन्द्रवाक्यकमलश्रेणीं समुल्लासयत् सच्चकप्रणयिप्रदेशवद सौ ग्रन्थश्चिरं नन्दतात् ॥११॥ संवत् १९२९ वर्षे श्रावणशुदि ५ शुक्रे लिखा • पेटलादन गरे || [ 556] ० अन्तः - वाचनाचार्य प्रबोधचन्द्रगणिविरचिता सन्देहदोलावलीवृत्तिः समाप्ता ॥ चान्द्रे कुतुबुधौजसि बर्द्धमानसूरिर्वभूव सुमुनिस्थितिकेलिधाम । ध्यानप्रकर्षमहिमेक्षितसूरिमन्त्रेशः साधुधर्म इव योग इवाथ मूर्त्तः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy