SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। ज्वलति परमज्योतिर्दीपो यदेष दिवानिशं हृदयसदने चक्रे वागीश्वरीप्रतिचारिकः । तत इह हि महार्थानां कोटीविज़म्भत इत्यहो! स्फुरति हृदि मे यन्नो लिङ्गं विना निजलिङ्गि नो ॥१०॥ तस्यास्त्वन्तेवासी प्रबोधचन्द्रगणिवाचनाचार्यः । गुरुकुलसेवाहेवाकविदितशिक्षाद्वयरहस्यः ॥११॥ सुविहितसामाचार्यां लक्षण-साहित्यविद्ययोर्यस्य । मूर्तो गुरुरिव गुरुरजनि वाचनाचार्यपद्मदेवगणिः ॥१२॥ जिनचन्द्रसूरिशिष्यः समजनि गुणभद्रवाचनाचार्यः । जङ्गमतीर्थः कातन्त्रपञ्जिकादौ गुरुर्यस्य ॥१३॥ कदापि न च यैक्षितामपि कथामिवान्वीक्षिकी यथा कविविवक्षित सदसि यो बतार्थापयत् । स यस्य विनयोदधेविषमतर्क विद्यार्णवाऽ वगाहनविधावभूद् विजयदेवसूरिर्गरुः ॥१४॥ नृपसमितिविजितविविधप्रतिवादिवितीर्णजयपताकोद्याः । जिनपालोपाध्यायाः आसन् यस्यागमे गुरवः ॥१५॥ दीक्षाचार्यजिनेश्वरसूरिवचःसिद्धमन्त्रमासाद्य ।। मुधावबोधनार्थ तेनेयं विरचिता वृत्तिः ॥१६॥ प्रथमं लक्ष्मीतिलकोपाध्यायैः सूक्ष्मदर्शिमतिमभिः । जिनरत्नाचार्यश्च चन्द्रतिलकैरुपाध्यायः ॥१७॥ स्व-परसमयतत्त्वज्ञैरतिवत्सलमानसैर्महाकविभिः । प्रतिभाजितसुरगुरुभिस्त्रिभिरपि समशोधि विधिनाऽसौ ॥१८॥ युग्मम् ॥ अन्यैरपि विद्वद्भिः संविग्नैरत्र सूत्रबाह्यं यत् । संभाव्यते तदखिलं मिथो विचार्यैव संशोध्यम् ॥१९॥ अत्रार्थेऽहं तेषामञ्जलिबन्धं करोमि बहुमानात् । मिलितैरपि पूज्यानां ग्रन्थे महिमा यतो जन्या ॥२०॥ मा गां मार्गसमानताभ्रमभवव्यामूढतात्रोटिनी तत्त्वज्ञानकरी कुमार्गगतसद्दोषव्रजाविष्करी । एषा निर्मलधर्मकर्मजननी संदेहदोलावली वृत्तिर्नन्दतु तापजाड्यमथनी भग्नीव चन्द्रार्कीया ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy