SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । सप्ताऽपि धातवो येषामर्हदूधर्माधिवासिताः । विरता उग्रपामभ्यो रता सद्धर्मकर्मणि ॥१०॥ श्रीसंघकृत्यकरणैकनिबद्धकक्षाः श्राद्वैकविंशतिगुणा वनदक्षमुख्याः । सम्यक्त्वमुख्यरवि(१२)संख्यत्रतैः परीताः सत्पात्रदाननिरतत्वगुणप्रतीताः । ११। क्ष्मापाललक्षपतिवासितनव्यरम्य - श्रीजाउरायपुरे सकलाकराढये । यैः करितं गगनमण्डलले हिकुम्भं श्रीजैनहर्म्यमतुलद्रविणव्ययेन ॥ १२ ॥ यैर्नायकत्वेन जिनेन्द्रशान्तिबिम्बं स्वशान्त्यै शिवकारिहारि । नागहूदे तीर्थवरेऽतिवित्ते सीहावसत्यां विनिवेशितं च ॥ १३॥ शत्रुञ्जये श्रीमति चोज्जयन्ते श्री चित्रकूटे फलवर्द्धिकायाम् । सोपारके सत्पुरि जीरपल्ल्यां श्री तीर्थयात्रा असृजनन्मुदा ये ॥१४॥ देवकुलपाटकपुरे श्रीवृषभोत्तुङ्गभवनकरणार्थम् । यैरर्पिता स्वगृहभू बहुत रस द्रव्यभागोऽपि ॥ १५ ॥ एवंविधाः षडपि ये तनया जगत्यां राजन्ति वर्षघर भूधरषट्तयीव । सवर्णकान्तिकलिताः कमलालयाश्च क्ष्माभृत्कुलोन्नतिभृतः सुमनोविलासाः । १६ । तेष्वाद्यः केल्हाह्नः साधुवरः समजनिष्ट नृपमान्यः । तस्याभूतां पत्न्यौ झोल - पूजीति विख्याते ॥ १७॥ पौरस्त्यायास्तनूजन्मा वाह्वो विनयान्वितः । द्वतीयस्या इयं जाता सत्पुत्रत्रितयी क्रमात् ॥ १८ ॥ आद्यो जेसाह्वयः पद्मसिंहाख्यो द्वितीयः पुनः । तृतीयो नरपालस्तु दयापालनलालसः ॥१९॥ यस्यावलोक्य विरतिं प्रवरां विशुद्ध सम्यक्त्वपालनकलां च दयालुतां च । आनन्द-शङ्ख शतकोत्तम कामदेव सन्नामधेयमधिहृत् सुधियः स्मरन्ति । २० || सगुणैरद्वितीयोऽपि द्वितीयः समजायत । लोकपृणोऽपि तच्चित्रं विश्रुतः कटुकाख्यया ॥२१॥ तस्याभवद् रूपकलानिधानं वारूः सुपत्नी तनयौ तयोः स्तः । आद्यः कलावान् खलु देवराजो द्वितीयकः सद्गुणभूर्धनाहः ॥ २२ ॥ Jain Education International [ ६३ For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy