________________
६२]
आ० श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे केचित् परामसंविधिकलाः विकलाः कलुकलायन्ते । तेभ्यो न कापि भीतिः सन्तः सन्तोषभाजश्चेत् ॥४॥
535] अन्तः- इति श्रीमलयगिरिविरचिता सप्तति टीका समाप्ता ॥ ग्रन्थाग्रम् ३७८० ॥ संवत् १४६४ वर्षे कार्तिकमासे शुक्लपक्षे द्वादश्यां तिथौ शुक्रदिने डुंगरपुरनगरे राउलश्रीप्रतापसिंहराज्ये लिखितं पञ्चाकेन । शुभं भवतु । नमो भगवत्यै श्रीसरस्वत्यै ॥
अस्मिन् भारतभूतलेऽतिविपुले सन्यायधर्मान्वितः
श्रीमान् गृर्जरसज्ञितोऽस्ति विषयः श्रीजैनहम्वृतः । अन्तस्तद्गगनाप्रलिध्वजपटभ्राजिष्णुचैत्यत्रयी
प्राप्तप्रौढिभरोऽस्ति देलउलिकाग्रामः सुखैरव्ययी ॥१॥ वापी-कपारामैरभिरामो राजते च यो ग्रामः । पुण्ड्रं नु भूपुरन्ध्रया हदहूदिनीपल्वलैः कलितः ॥२॥ प्राग्वाटवंशाम्बुजबोधभानू रत्नाह्वयः श्रेष्ठिवरो वदान्यः । तत्राभवच्छ्राद्धकुलावचूल: श्रीधर्मकर्माचरणानुकूलः ॥३॥ रत्नादेवी तस्य जायाऽजनिष्ट श्रेष्ठा शश्वत् शीलनाम्ना गुणेन । अर्हत्पूजा-सदगुरूपास्तिलीना हीना दोषैः क्षान्तिपीयूषपीना ॥४॥ देवसिंह इति सिंहमहौजास्तत्सुतः समजनिष्ट सुतेजाः ।। प्रेयसी समभवत् कुलशीला तस्य धर्मकलिता किल देल्हूः ॥५॥ तयोस्तनूजत्रितयीत्रिनेत्र त्रयीव या त्रिजगत्प्रतीता ।
अभूज्जगत्सिंह इतीहमुख्यस्तेजाह्वयः पातलसंज्ञितश्च ॥६॥ इतश्च--
तत्रैव देपाल इति प्रसिद्धः श्रेष्ठीश्वरोऽभूद् रमया समृद्धः । तस्या भवद् रूपलनाम जाया जाउः सुताऽऽसीच्च तयोरमाया ॥७॥ अहेंद्गुरूपासन एकतानः शश्वत्स्फुरद्विश्वयशःप्रतानः । तेषूपयेमे जगसिंहनामा तां शुद्रशीलादिगुणां च जाऊं ॥८॥ एवं कालक्रमेणाजनिषत तनयाः षट् तयोधर्मनिष्ठाः
___ सद्वृत्ता वित्तवित्ता जगति सुविदिता न्यायवृत्त्या च गुया । गाम्भीर्यौदार्यवर्या विरतिरतिकृतो भाग्यसौभाग्यभाजः
सम्यक् श्रीदेव गुर्वाद्यमलगुरुलमद्भक्तिसुब्यक्तचित्ताः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org