SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ६०] आ० श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे नीरोगोऽपि विधानतो निजतनुः संलिख्य सर्वादरात् सर्वाहारविवर्जनादनशनं कृत्वोज्जयन्ते गिरौ । कालेऽप्यत्र कलौ त्रयोदशदिनान्याश्चर्यहेतुर्जने । शस्य पूर्वमुनीश्वरीयचरितं संदर्शयामास यः ॥४॥ तच्छिष्यो भूरिबुद्धिमुनिवरनिकरैः सेवितः सर्वकालं सच्छास्त्रार्थप्रबन्धप्रवरवितरणाल्लब्धविद्वत्सु कीर्तिः । येनेदं स्थानकानां विरचितमनधं सूत्रमत्यन्तरम्य श्रीमत्प्रद्युम्नसूरिर्जितमदनभटोऽभूत् सतामग्रगामी ॥५|| राद्धान्त-तर्क-साहित्य-शब्दशास्त्रविशारदः । निरालम्बविहारी च यः शमाम्बुमहोदधिः ॥६॥ सिद्धान्तदुर्गममहोदधिपारगामी कन्दर्पदर्पदलनोऽनघकीर्तियुक्तः । दान्तातिदुईममहर्द्धिकमहातुरङ्गः श्रीमाँस्ततः समभव....रिः ॥७॥ जगत्यपि कृताश्चर्य सुराणामपि दुर्लभम् । निशाकरकराकारं चरित्रं यस्य राजते ॥८॥ तच्चरणरेणुकल्पस्तस्याणुदेवचन्द्रसंज्ञोऽभूत् । तच्छिष्यो गुरुभक्तस्तद्वदघिधिषणो विनिर्मुक्तः ॥९॥ किञ्चः श्रीमदभयदेवाभिधसूरेर्यो लघुसहोदरः । स इव तस्यैकवृत्तिं चक्रे सूरिः श्रीदेवचन्द्राख्यः ॥१०॥ मतिविकलेनापि मया गुरुभक्तिप्रेरितेन रचितेयम् ।। तस्मादियं विशोध्या विद्वद्भिर्मयि कृपां कृत्वा ॥११॥ आवश्यकसत्पुस्तकलेखनजिनवन्दनार्चनोयुक्तः । शय्यादानादिरतः समभूदिह चीहकस्येव ।।१२॥ तद्गुणगणानुयायी श्रीक्सस्तत्सुतः समुत्पन्नः । तद्वसतावधिवसता रचितेयं स्तम्भतीर्थपुरे ॥१३॥ रस-युग-रुदै(११४६)वीतैर्विक्रमसंवत्सरे समाप्तेयम् । फाल्गुनसितपञ्चम्यां गुरुवारे प्रथमनक्षत्रे ॥१४॥ अणहिल्लपाटकनगरे वृत्तिरियं शोधिता सुविद्वद्भिः । श्रीशीलभद्रप्रमुखैराचार्यैः शास्त्रतत्त्वज्ञैः ।।१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy