SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। [444] स्वस्ति संवत् १५७० वर्षे आषाढादि ७१ वर्षे माहमासे शुक्लपक्षे चतुर्थीगुरौ श्रीऊकेशगच्छे श्रीसिद्धाचार्यसंताने पूज्यभ० श्रीसिद्धसूरि-श्रीकक्कसूरि-श्रीदेवगुप्तसूरि-उपाध्यायश्रीमतिसागरान्वये पूज्यभ० श्रीधनवर्द्धनसूरि-श्रीदेवगुप्तसूरितत्पट्टोद्योतकार कप्रभुपुरन्दरपूज्यभट्टारकश्रीकीर्तिभूषणस्य श्रीसिद्धसूरिपट्टभृन्नाम - तच्छिष्यगुणमणिरत्नभूधरसदृशपण्डितश्री कीर्तिकलशेन वाचनाय लिखिताऽस्ति ॥ प्रत्यक्षरं गणनया ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सपदानां चतुस्त्रिंशच्छतानि च ॥४॥ बालानां बोधाय च वैरङ्गिकदानविजयवाचनाय । इषु-नेत्र-शैल-भूमिप्रमिते वर्षे ऽत्र हर्षेण ।।५।। चतुर्भिः कलापकम् ॥ लिखिता चेयं संवत् १७९८ ना वर्षे चैत्रवदि ६ दिने लिखितं मुनिमोहनविजे(जयेन) चिरं जीवी ॥ [455] अन्तः--तपगच्छजलधिचन्द्राः स्वाध्यायध्यानकरणनिस्तन्द्राः । भव्यजनानन्दकरा श्रीविजयानन्दसूरयोऽभूवन् ॥१॥ तत्पट्टोदयभूधरतरणिसमानतमस्तमोऽपहरे । श्रीविजयराजसुगुरौ सूरिगुणालङ्कृते विजयमाने ॥२॥ तत्सुसतीर्थ्यविबुधप्रत्याख्येन शान्तिविजयगणिनाम्ना । भवभावनायाः वार्तिकमलेखि शिशुनाऽऽशु मानविजयेन ॥३॥ [461, 462 ] अन्तः-इति श्रीदेवचन्द्राचार्यविरचितं मूलशुद्धि-स्थानकविवरणं समाप्तमिति । आसीच्चन्द्रकुलाम्बरैकशशिनि श्रीपूर्णतल्लीयके ___ गच्छे दुर्धरशीलधारणसहैः संपूरिते संयतैः । निःसंबन्धविहारिहारिचरितचञ्चच्चरित्रः शुचिः श्रीसूरिमलवर्जितोर्जितमतिश्चाम्रिदेवाभिधः ॥१॥ तच्छिष्यः श्रीदत्तो गणिरभवत् सर्वसत्त्वसमचित्तः । नरनायकादिवित्त: सद्वृत्तो वित्तनिर्मुक्तः ॥२॥ सूरिस्ततोऽभूद् गुणरत्नसिन्धुः श्रीमान् यशोभद्र इतीद्धसंज्ञः । विद्वान् क्षितीशैनंतपादपद्मः सन्नैष्ठिको निर्मलशीलधारी ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy