________________
४८]
अ० श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे इत्यर्थिवाँस्तस्मै गुरौ प्रवृत्तेऽकरोत् तथाकर्तुम् । तद्गमवीर-गौतमनामाऽर्चा रैरजतटकैः ॥१४॥ तेनार्हणा धनेनालेखयदाप्तोक्तिकोशसुचतुष्कम् । सत्यादिसूरिवचनात् क्षेत्रनवक उप्तवान् वित्तम् ॥ १५॥ त्रिभिः कुलकम् ॥ तत्तनयः पद्माह्वस्तदुद्वहो लाडणस्तदङ्गभवः । अस्ति स्माहूणसिंहस्तदङ्गजो मण्डलिकनामा ॥१६॥ श्रीरैवतार्बुद सुतीर्थमुखेषु चैत्योद्धारानकारयदनेकपुरेण्वनल्पैः । न्यायार्जितैर्धनभरैर्वरधर्मशालां यः सत्कृतो निखिलमण्डलमण्डलीकैः ॥१७॥ वसु-रस-भुवन(१४६७)प्रमिते वर्षे विक्रमनृपाद् विनिर्जितवान् । दुष्कालं समकालं बहुधान्नानां वितरणाद् यः ॥१८॥ वर्षेषु सप्त-सप्तत्यधिकचतुर्दशशतेषु (१४७७) यो यात्राम् । देवालयकलितां किल चक्रे शत्रुञ्जयायेषु ॥१९॥ श्रुतलेखन-संघार्चाप्रभृतीनि बहूनि पुण्यकार्याणि । योऽकार्षीद् विविधानि पूज्यजयानन्दसूरिगिरा ॥२०॥ व्यवहारिठाईआख्योऽभूद् दक्षस्तत्तनुज एव विजिताक्षः । वरमणकाईनाम्नी सत्त्ववती जन्यजनि तस्याः ॥२१॥ तत्कुक्ष्यनुपममानसकासारसितच्छदास्त्रयः पुत्राः । अभवन् श्रेष्ठाः पर्वत-डुंगर-नरबदसुनामानः ॥२२॥ तेष्वस्ति पर्वताख्यो लक्ष्मीकान्तः सहस्रवीरेण । पोइआप्रमुखकुटुम्बैः परीवृतो वंशशोभाकृत् ॥२३॥ इंगरनामा द्वितीयः स्वचारुचातुर्यवर्यमेधावान् । पत्नीमंगादेवीरमणः काहाख्यसुतपक्षः ॥२४॥ स्वकारितार्हत्प्रतिमाप्रतिष्ठां विधाप्य तौ पर्वत-डूंगराभिधौ । वर्षे हि नन्देषु-तिथौ (१५५९) च चक्रतुः श्रीवाचकस्थापनसन्महोत्सवम् ॥ खर्तु-तिथि(१५६०)समायां यात्रां तौ चक्रतुः सुतीर्थेषु । जीरापल्लीपाबंदाचलायेषु सोल्लासम् ॥२६॥ गन्धारमन्दिरे तो झलमलयुगलादिसमुदयोपेताः । श्रीकल्पपुस्तिका अपि दत्त्वाऽखिलसर्वशालासु ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org