________________
प्रशस्त्यादिसंग्रहः ।
[४९ कृतसंघसत्कृती चावाचयतां तौ च रूप्यनाणकयुग । ददतुश्च सितापुजं समस्ततन्नागरिकवणिजाम् ॥२८॥ कृतवन्तावित्यादिविहितचतुर्थवतादरौ सुकृतम् । आगमगच्छेशश्रीविवेकरत्नाख्यगुरुवचनात् ॥२९॥ अथोत्तमौ पर्वत-काहनामको सार्थोद्यमौ सूरिपदप्रदापने । आकारितानां च समानधर्मिणां नानाविधस्थानसमागतानाम् ॥३०॥ पुंसां दुकूलादिकदानपूर्वकं समस्तसदर्शनसाधुपूजनात् । महामहं तेनतुरुत्तरं तौ पवित्रचित्तौ जिनधर्मवासितौ ॥३१॥ युग्मम् ।। आगमगच्छबिभ्रतां सूरिजयानन्दसद्गुरोः क्रमतः । श्रीमदविवेकरत्नप्रभसूरीणां सदुपदेशात् ॥३२॥ शशि-मुनि-तिथि(१५७१)मितवर्षे समग्रसिद्धान्तलेखनपराभ्याम् । व्यवहारिपर्वत-काहाभ्यां सुकृतरसिकाभ्याम् ॥३३॥ निजमानसमोदभरादलेखि निर्मलविचित्ररचनाढ्या । यतिजीतकल्पवृत्तिजिनोदितार्था जयतु सेयम् ॥३४॥ त्रिभिर्विशेषकम् ॥ [अन्यदीयहस्तेनोल्लिखितं यत्-] संविग्नेनान्तिषदा तपगणपतिविजयसेनसूरीणाम् । श्रीरामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥१॥
[117] अन्तः-- प्रत्याख्यानस्य नियुक्तिः स्फुटार्था प्रकटीकृता ।
यथावृत्ति सुबोधैषा विद्वविमलकीर्तिभिः ॥१॥ प्रशस्तिः - अस्ति प्रशस्तरत्नौघः सदाचारपयोधरः ।
पुरुषोत्तमसंसेव्यश्च श्रीराजगणसागरः ॥१॥ यत्रासन्नधुनासमबलिना भूमण्डलस्वामिना
श्रीमद्वीरमते सतामभिमते स्पष्टं समुत्त्रासिते । जाग्रविष्णुकुमारवयुगवरा रक्षाकराः प्रस्फुरत्
___ पक्षाः श्रीजिनचन्द्रसूरिगुरवो मान्याः समैः सूरिभिः ॥२॥ .. तत्पट्टे गतसंकटे त्रिजगतीमाच्छादयन्तः स्वकै
रच्छा तुच्छसमुच्छलत्रिपथगा डिण्डीरपिण्डोपमैः । प्रशस्ति ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org