SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [४७ नरसिंह रत्नसिंहौ चतुर्थमल्लस्ततस्तु मुजालः । विक्रमसिंहो धर्मेण इत्येतेऽस्यानुजाः क्रमतः ॥३॥ संडेरकेऽणहिलपाट कपत्तनस्यासन्ने य एव निरमापयदुच्चचैत्यम् । स्वस्वैः स्वकीयकुलदैवतवीरसेनक्षेत्राधिराजसतताश्रितसंनिधानम् ॥४॥ वासावनीनेन समं च जाते कलौ कुतोऽस्थापयदेव हेतोः । वीजापुरक्षत्रियमुख्यवीजासौहार्द तो लोकक रार्द्धकारी ॥५॥ अत्र रीरीमयज्ञातनन्दनप्रतिमान्वितम् । यश्चैत्यं कारयामास लसत्तोरणराजितम् ॥६॥ योऽकारयत् सचिवपुङ्गववस्तुपालनिर्मापितेऽर्बुद गिरिस्थितनेमिचैत्ये । उद्धारमात्मन इव ब्रुडतो ह्यपारसंसारदुस्तरणवारिधिमध्य इद्धः ॥७॥ गोऽत्रैवाद्याप्तबिम्बं भीमसाधुविधित्सितम् । यं पित्तलमयं हैमदृढसंधिष्वकारयत् ॥८॥ चरमजिनवरेन्द्रस्फारमूर्ति विधाप्य गृहजिनवसतौ प्रातिष्ठिपत् शुद्धलग्ने । पुर उरुतरदेवौकःस्थितायां च तस्यां समहमतिलघोः श्रीकर्णदेवस्य राज्ये ॥९॥ ख-रस-समय-सामे (१३६०) बन्धुभिः ष भिरेव सममिह सुविधीनां साधने सावधानः । विमलगिरिशिरःस्थादीश्वरे चोज्जयन्ते यदुकुलतिलकाभं नेमिमानम्य मोदात् ॥१०॥ निजमनुजभवं यः सार्थक स्राक् चकार विहितगुरुसपर्यः पालयन् सांघपत्यम् । कलसकलकलासत्कौशली निष्कलङ्कः पुनरपि पडकार्षीद् यो हि यात्रास्तथैव ॥११॥ त्रिभिः कुलकम् ।। मुनि-मुनि यक्ष (१३७७) मितेऽब्दे दुर्भिक्षविलक्षदीनजनलक्षान् । वीक्ष्यातुलधन्यानां दानात् स्वस्थांश्च यः कृतवान् ॥१२॥ समयश्रुतिफलमतुलं स्वगुरोर्योऽथैकदाऽवबुध्य सुधीः । सकलं विमलं सततं सदागमं श्रावय मम त्वम् ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy