SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ४४] श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे [96] अन्तः-व्याख्यानं कल्पसूत्रस्य नवमं सुगमं स्फुटम् । शिष्यार्थ पाठकाश्चक्रुः समयादिमसुन्दराः ॥१॥ श्रीशासनाधीश्वरवर्धमानो गुणैरनन्तैरतिवर्द्धमानः । यदीयतीर्थ ख-खाज-नेत्र (२१००) वर्षाणि यावद् विजयि प्रसिद्धम् ॥१॥ तदीयशिष्यो गणभृच्च पञ्चमः मुधर्मनामाऽस्य परम्परायाम् । बभूव शाखा किल वज्रनाम्नी चान्द्रं कुलं चन्द्रकुले च निर्मलम् ॥२॥ तद्गच्छे त्वभिधानतः खरतरे यैः स्तम्भनाधीश्वरो भूमध्यात् प्रकटीकृतः पुनरपि स्नानोदकाद् रुग् गता । स्थानाङ्गादिनवाङ्गसूत्रविवृतिर्नव्याऽतिभव्या कृता श्रीमन्तोऽभयदेवसूरिगुरवो जाता जगद्विश्रुताः ॥३॥ यो योगिनीभ्यो जगृहे ददौ च वरान् वरान् जाग्रदनेकविद्यः । पञ्चापि पीरान् स्ववशीचकार युगप्रधानो जिनदत्तसूरिः ॥४॥ पुनरपि यस्मिन् गच्छे बभूव जिनकुशलनाम सूरिवरः । यस्य स्तूपनिवेशाः सुयशःपुञ्जा इवाभान्ति ॥५॥ तत्पट्टानुक्रमतः श्रीमज्जिनचन्द्रसूरिनामानः ।। जाता युगप्रधाना मु(? दिल्लीपतिपातसाहिकृताः ॥६॥ अकबररञ्जनपूर्व द्वादशसुबेषु सर्वदेशेषु । स्फुटतरममारिपटहः प्रवादितो यैश्च सूरिवरैः ॥७॥ यद्वारे किल कर्मचन्द्रसचिवः श्राद्धोऽभवद् दीप्तिमान् येन श्रीगुरुराजनन्दिमहसि द्रव्यव्ययो निर्ममे । कोटेः पादयुजः शरादि(७५)समये दुर्भिक्षवेलाकुले सत्राकारविधानतो बहुजनाः संजीविता येन च ॥८॥ यद्वारे पुनरत्र सोमजि-शिवाश्राद्धौ जगद्विश्रुतौ । याभ्यां राणपुरस्य रैवतगिरेः श्रीअर्बुदस्य स्फुटम् । गौडी-श्रीविमलाचलस्य च महान् सङ्घोऽनघः कारितो गच्छे लम्भनिका कृता प्रतिपुरं रुक्मामेकं पुरम् ॥९॥ तेषां श्रीजिनचन्द्राणां शिष्यः प्रथमतोऽभवत् । गणिः सकलचन्द्राख्यो इहडान्वयभूषणम् ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy