________________
प्रशस्त्यादिसंग्रहः। तच्छिष्यसमयसुन्दरसदुपाध्यायैर्विनिर्मिताऽध्यायः । कल्पलतानामाऽयं ग्रन्थश्चक्रे प्रयत्नेन ।।११॥ प्रक्रिया-हैम-भाण्यादि पाठकैश्च विशोधिता(तम्) । हर्षनन्दनवादीन्द्रश्चिन्तामणिविशारदैः ॥१२॥ कचित् सूत्र-वृत्त्योरनवबोधतो वा
विचित् सूत्रपाठान्तरभ्रान्तिमत्वात् । कचिद् बुद्धिमान्द्याजिनाज्ञाविरुद्ध
मयाऽवाचि मिथ्याऽस्तु तदुःकृतं मे ॥१३॥ विषमं संस्कृतं भक्त्वा सुगमं च मया कृतम् । सर्वत्र न कृतः सन्धिस्तत् सर्व सुखबोधये ॥१४॥ सभासमक्षं व्याख्यानं कल्पसूत्रस्य दुष्करम् । केषाञ्चिदल्पबुद्धीनां बहूपायप्रलोकनात् ॥१५॥ कृत्वा तदनुकम्पां तां मया कल्पलता कृता । सुगमा तत एतस्यामेकस्यामेव कथ्यताम् ॥१६॥ लूणकर्णसरोग्रामे प्रारब्धा कर्तुमादरात् । वर्षमध्ये कृता पूर्णा मया चैषा रिणीपुरे ॥१७॥ राज्ये श्रीजिनराजसूरिसुगुरोर्बुद्धया जितस्वर्गुरो
र्यभाग्यं भुवि लोकविस्मयकरं सौभाग्यमत्यद्भुतम् । कीर्तिस्तु प्रसरीसरीति जगति प्रौढप्रतापोदया
ऽऽज्ञाऽत्युग्रतमाऽकृथाः तनुभृतां दारिद्रयदुःखापहा ॥१८॥ श्रीमदभानवडे च पुण्डरगिरौ श्रीमेडतायां पुनः
श्रीपल्लीनगरे च लोद्रनगरे प्रौढा प्रतिष्ठा कृता । द्रव्यं भूरितरं व्ययीकृतमहो श्राद्धैर्महत्युत्सवे
राजन्ते जिनराजसूरिगुरवस्ते सांप्रतं भूतले ॥१९॥ युवराजे जिनसागरसूरिवरे विजयिनि प्रकृतिसौम्ये । यत्सौभाग्ययशोभिर्धवलीकृतभूतलं भाति ॥२०॥ तद्गुरूणां प्रसादेन मया कल्पलता कृता ।।
कल्पसूत्रमिदं यावत् तावन्नन्दतु साऽपि हि ॥२१॥ इति समयसुन्दरोपाध्यायविरचिता कल्पलतानाम्नी श्रीकल्पसूत्रस्य टीकेयं समाप्ता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org