SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। [४३ श्रीमन्मण्डपमेरुमौलिमुकुटप्रायं जिनस्यास्पदं निर्मायोऽद्भुतजैनबिम्बमतुलं संस्थापितं येन वै । श्रीशत्रुञ्जय-वतादिशिखरे यात्रा कृता सोत्सवं श्रीमदर्बुदशैलराजशिखरे लब्धा प्रतिष्ठा भृशम् ॥२॥ वृद्धतपावरगच्छे स्वच्छे श्रीगगनोपमे । सद्वृत्ता श्रीगुरुचन्द्राः लब्धिसागरसूरयः ॥३॥ निशम्य तेषां सहजोपदेशं तस्याङ्गजेनाशु विवेकसेकतः । स्वपितृपुण्याय विचक्षणेन श्रीसोनपालेन नरोत्तमेन ॥४॥ स्मृत्वा स्वपितुर्वचनं मेघातनयेन सोनपालेन । जिनमतसक्तग्रन्थश्रीकोशो लेखयांचक्रे ॥५॥ गुणसागर-चारित्रगणी कृतसदोद्यमे । मातृ-लेश्या-व्रत-ब्रह्ममिते(१५६८) वर्षे च कार्तिके ॥६॥ वरतरसुवर्णरुचिरो निरस्तदौर्गत्यसंभवत्क्लेशः । श्रीसिद्धान्तः सत्कोशः नन्द्याद् भूमण्डलं यावत् ॥७॥ इति सुखमस्तु ॥ [89] अन्तः-महोपाध्यायश्री १०८ श्रीशुभविजयगणि-तच्छिष्यमहोपाध्यायश्री १०८ श्रीहितविजयगणि-सं० १८३० वर्षे पोससुदि २ दिने वारबुधे प्रभातसमये स्वकीयवाचनाय श्रीपाल्हण पुरे ग्रं० ६००० ॥ श्रीरस्तु । कल्याणमस्तु । [90] अन्तः सं० १५५५ वर्षे तपागच्छनायकश्रीहेमविमलसूरिविजयमानराज्ये ऊपहरावास्तव्यप्राग्वाटजातिशृङ्गार श्रे० राउलभार्यागउरी-पुत्ररत्न सं० देधरभार्या--सं० सलखूसुतसं० अदाभगिनी-भातृमं० नपादिकुटुम्बयुतेन स्वश्रेयसे पूज्याराध्यपं० सत्यरत्नगणिशिष्यपं० सुन्दरसत्यगणीनामुपदेशेन श्रीकल्पसूत्रं लिखापितम् ॥ [94] अन्तः-इति श्रीकल्पसूत्रं संपूर्णम् । सूत्रसंख्या १२१६ । टबो ३४३६ ॥ अक्खरमत्ताहीणं जं किंचि पढियं अयाणमाणेणं ।। तं खमह मज्झ सयं जिणवयणविणिग्गया वाणी ॥१॥ संवत् चन्द्र-शर-मुनि-चन्द्र(१७५१) वर्षे मासअश्विनवदि ७ सप्तम्या भृगुवासरे श्रीरामपुरादुर्गे पण्डितश्रीरामविमलगणि-तच्छिष्यपण्डितज्ञानविमलगणिशिष्यपं० मोहनविमलेन लिपीकृतम् ॥ यादृशं० ॥ अज्जा श्रीरतनाजीवाचनार्थम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy