SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २८ ] Jain Education International आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे प्राग्वाटान्वय इक्षुवाट सुभगो वृद्धिं परां प्रापितो यैः पूज्यैरतिशायिसंवररसासाराद्वयतात्युन्नतैः ॥ १ ॥ शिष्य-प्रशिष्यैः प्रसूतैयदीयैर्गच्छो वटो वा ववृधे प्ररोहैः । तस्मिन् बृहन्नामनि मूलकल्पाः श्रीसर्वदेवाभिघसूरयस्ते ॥२॥ बभूवुरुत्सर्पिगणाधिपत्याः श्री गौतमस्यानुकृतिं दधानाः । सत्याहितस्वान्ततया प्रसिद्ध सौभाग्यलक्ष्याद्भुतकीर्तिभाजः ||३|| तत्पट्टे प्रथिते सुवर्णघटिते कल्याणकुम्भोपमाः श्रीमन्तो जयसिंहसूरिगुरवः सिद्धा [ ! न्त ] दुग्धार्णवाः । दत्तो यैर्विधिमार्गदविधा ( ? ) वादेशदीपाङ्कुरः शिष्याणां विनयैकतानमनसामाचार्यलक्ष्मीभृताम् ॥४॥ श्रीमच्चन्द्रकुलोदयाद्विशिखरोत्तंसाः सुधांशुश्रियः श्रीचन्द्रप्रभसूरयो जिनवचः क्षीरार्णवोल्लासिनः । मोहध्वान्तमपास्य भव्यकुमुदोद्बोधामृतास्तेऽभवन् यत्कीर्तिर्धवलीकरोति भुवनं ज्योत्स्नातुलां बिभ्रती ॥५॥ 'तैर्दत्तामुपलभ्य निर्मलकलां श्रीधर्मघोषप्रभु स्वांस्तत्रतपःप्रतापकलितो जज्ञे ददद्विस्मयम् । नानादृतकुतीर्थता रुचि .. व्यासप्रहाणोचतो माद्यद्वादिकुशीलकौशिकमदोद्रेकापहारक्षमः ॥६॥ आदिष्टा जयसिंहसूरिभिरमी चात्मीयशिष्योत्तमा विख्याता जगति क्षमाघरशिरोऽलङ्कारलीला स्पृशः । पूज्याः शीलगणे तपागणभृतो येऽखण्डवृत्तोदया निन्युश्चन्द्र इव प्रकाशपदवीपूर्णामिमां पूर्णिमाम् ||७|| गच्छेऽस्मिन् प्रसृते क्षमानुगगुणैः शास्त्राभिरभ्युन्नते येषां कुन्दसमुज्ज्वलेन यशसा पुष्पायितं सर्वतः । गन्धग्रहणे रसिका भव्यालयोsहर्निशं संगीतं प्रथयन्ति संमदरसस्यापानतः स्वेच्छया ॥८॥ चञ्चच्चन्द्रकुले चरित्रनृपतेः श्रीराजधान्यामिह प्रासादेषु महात्रतेषु सुदूरारोहाग्रभागेष्वियम् । येषां कीर्तिरमन्दमन्दरपरिभ्रान्तकमोल्लासित क्षीराम्भोधिविलोलवीचिरुचिरात् तेने पताकावली ॥९॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy