SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ [२७ प्रशस्त्यादिसंग्रहः। संविज्ञोऽभयदेवसूरिमुनिराट् श्रीमज्जिनाद् वल्लभः पूज्यः श्रीजिनदत्तसूरिंगणभृन्मुख्या मुनीन्द्रास्ततः ॥२॥ सूरीन्द्राः सुतरां जिनादिकुशलश्रीजैनभद्रादय स्ते सर्वेऽपि जयन्त्वमी ध्रुवं जु(यु)गप्राधान्यमाबिभ्रतः (१)। येषां सर्वहितैषिणां सुमनसां सद्वाक्सुधास्वादतो ___ मागमोहविमूर्छितोऽपि झटिति प्राप्तः प्रबोधाङ्कुरम् ॥३॥ (त्रिभिः संबन्धः) अपि च, यन्मादृशोऽपि मूढो महतो गुणवर्णनोद्यतो भवति । तत्र ज्ञानदयानिधिगुरुप्रसादो हि सद्धेतुः ॥४॥ इति सद्गुरुस्तुतिमङ्गलम् ॥ वर्षे नन्द-कृशानु-सिद्धि-वसुधा(१८३९)संख्ये नभस्ये सिते पक्षे पावनपञ्चमीसुदिवसे श्रीजेसलाद्रौ पुरे । श्रीमच्छ्रीजिनलाभसूरिंगणभृततुल्यप्रतापोद्भुरे कान्ते श्रीजिनचन्द्रसूरिमुनिपे धर्मेशतां बिभ्रति ॥५॥ सूरिश्रीजिनभक्तिभक्तिनिरताः श्रीपीतितः सागरा स्तशिष्यामृतधर्मवाचकवराः सन्ति स्वधर्मादराः । तत्पादाम्बुजरेणुराप्तवचनस्मर्ता विपश्चित् क्षमा कल्याणः कृतवान् मुदे सुमनसामेतच्चरित्रं स्फुटम् ॥६॥ उत्सूत्रमिह यदुक्तं मोहात् तद् दुरितमस्तु मे मिथ्या । यदवापि पुण्यमस्मात् तुष्यतु सकलोऽपि तेन जनः ॥७॥ इति परमपवित्रं श्रीयशोधरनरेन्द्रचरित्रं सद्भिर्वाच्यमानं चिरं नन्दतु ॥ संवत् १९१९ रा साके १७८४ प्रवर्त्तमाने मासोत्तममासे कृष्णपक्षे द्वादश्यां तिथौ मङ्गलवासरे श्रीबृहत्खरतरगच्छे भट्टारकोत्तमभट्टारक श्रीश्री १०८ श्रीहर्षसूरिजीसूरीश्वरजी तच्छिष्यश्रीहंसराजजोगणि तच्छिष्यलघुपं० कल्याणनिधानमुनिना लिखितेदं पुस्तकं स्वपठनहेतवे । जं०यु०प्र०भट्टारकप्रवर्तमाने भट्टारकोत्तम १०८ श्रीजिनहंससूरिजीनां विजयराज्ये लि० सहिर मकसूदाबादे महिमापुरे चतुर्मासीकृतः ॥ जलाद् रक्षेत्० ॥ अन्तः-आमूलान्मधुरोऽत्र गच्छगहने तापापहारप्रभु नित्यानन्दसुपर्वभिः परिचितः स्वर्गश्रिया राजितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy