________________
२६]
आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे पट्टालंकारसारश्रीः सूरिश्रीजिनवल्लभः। सन्ताने तस्य शिष्यात्मा श्रीविजयोदयसूरिराट् ॥२॥ तत्पदृशाङ्गभृद्वक्षःस्थलकौस्तुभसंनिभः । श्रीजिनराजसूरीन्द्रो योऽभूद् दीक्षागुरुर्मम ॥३॥ तदनु श्रीजिनवर्द्धनसूरिः श्रीमानुदैदुदारमनाः । लक्षण-साहित्यादिग्रन्थेषु गुरुर्मम प्रथितः ॥४॥ श्रीजिनभद्रमुनीन्द्राः खरतरगणगगनपूर्णचन्द्रमसः । ते चोपाध्यायपदप्रदानतो मे परमपूज्याः ॥५॥ श्रीजयसागरगणिना तेन मया वाचकेन शुचि वाच्यम् । पृथ्वीचन्द्रचरित्रं विरचितमुचितप्रविस्तारम् ॥६॥ प्रह्लादनपुरनगरे त्रि बिन्दु-तिथि(१५०३)कृतो ग्रन्थः । माल्हश्रावकवसतौ समाधिसंतोषयोगेन ॥७॥ अभ्यर्थनया सत्यरुचेः साहाय्यकारिणि रत्नचन्द्रे । उपक्रमोऽयं फलवान् ममाभूत् क्रिया हि साहायकसव्यपेक्षा ॥८॥ यद्गदितमल्पमतिना न्यूनाधिकमर्थजातमिह किश्चित् । विद्वद्भिरमलधीभिः प्रसादमाधाय तच्छोध्यम् ॥९॥
अनुष्टुभां सहस्रे द्वे संपूर्णानि शतानि षट् । - चतुःपञ्चाशदन्या च ग्रन्थमानमुदाहृतम् ॥१०॥
अङ्कतोऽपि ग्रन्थाग्र० २६५४ ॥ कृतिरियमुपाध्यायश्रीजयसागरस्य । स्वस्ति श्रीअणहिलपुरपत्तनवास्तव्यमन्त्रिझिणाभार्याआसलदे-तत्सुतसा० बर्जाङ्गसुश्रावकेण भ्रातृसा० समरसिंहभातृजसालिगप्रमुखपरिवारसहितेन चरित्रमिदं ज्ञानाराधनबुद्धया लेखितम् । लिखितं लैया जैनारायण पीरौहत (पुरोहित), मध्ये बीकानेर । संवत् १९६० रा मिति । भाद्रवा सुद ४ ॥ अन्तः-- श्रीमत्तीर्थपतिर्जगत्त्रयमतः श्रीवर्धमानप्रभु
___ीयात् तत्पदपङ्कजैकमधुकृत् श्रीमत्सुधर्मा गुरुः । तत्संतानसमुद्भवा युगवरा देवर्धिमुख्यास्ततः
पूज्यश्रीहरिभद्रसूरिंगणभद्वर्या गणाधीश्वराः ॥१॥ सज्ज्ञानाद्भुतवर्धमानसुगुरुश्चारित्रिणामग्रणीः
श्रीमत्सूरिजिनेश्वरः सुविदितः श्रीजैनचन्द्रस्ततः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org