________________
प्रशस्त्यादिसंग्रहः ।
[२३
तमोध्वंसितपस्तेजोविमलीकृतभूतलः । अभूदभयदेवाख्यः सूरिस्तत्पट्टमण्डनम् ॥२॥ श्रीचन्द्रसूरिर्भवमोहमूविध्वंसनोसिक्ततपःप्रभावः । साहित्यतर्कागमपारदृश्वा श्रीदेवसूरिः सुरसार्थनुत्यः ॥३॥ श्रीसाधुपूर्णिमागच्छश्रीभालतिलकप्रभः । बुद्धया जितमरुत्सूरिः सूरिश्रीतिलकप्रभः ॥४॥ कवित्वे रसनिःष्यन्दे कविनाऽप्यजितप्रभः । प्रमाणागमनिष्णातस्तत्तोऽभूदजितप्रभः ॥५॥ जीयात् ततः श्रीकनकप्रभाख्यः सूरिः सदा सद्गुणबद्धलक्षः । मारान्तकृत्प्रोज्ज्वलशीलभल्लः कृपाकृपाणीहतकोपमल्लः ॥६॥ तद्ध्यानलीनोऽस्तु गुणैरहीनोऽशोभि भूरिः श्रीगुणचन्द्रसूरिः । जयाङ्कराजी बहुभव्यराजीपयोजहेलिः श्रितधर्मकेलिः ॥७॥ रत्नाकरावतारिकवरटिप्पनं तद् ज्ञानेन्दुरल्पतरधीः स्वमतिप्रवृद्धयै । तच्छिष्यको रचितवान् मलधारिपूज्यः श्रीराजशेखरगुरोश्च निदेशमाप्य ॥८॥ श्रीराजशेखरगुरुर्गरिमाविधानं तर्काम्बुधि[र्यश्च]महार्घजलाभिलाषी । मद्वाक्यजातमखिलं तदनल्पदोषे निर्दूषणं व्यधित सत्प्रतिभाऽमितश्रीः॥९॥ यद्यपि किश्चिन्न्यून ज्ञानाभावान्मया भवति रचितम् । तच्छोध्यं विबुधजनैर्मयि कुर्वाणैः कृपामुच्चैः ॥१०॥ ___ इति श्रीरत्नाकरावतारिकाटिप्पनं संपूर्ण समाप्तम् ।
संवत् १९५७ आसोशुद्धिपूर्णिमादिने रविवासरे लिखितं जैनशालामध्ये बारोट हरिलाल मालजीपठनार्थ मुनिकेशरविजेजी ॥
[623 ] अन्तः-स्याद्वादपुष्पकलिका प्रवचनाद् विनिर्ममे ।
बालबोधाय लेशेन नत्वाऽर्थावगमाय च ॥१॥ कोटिकेन्दुखरतरे वंशवाचकभास्करः । निध्युपाध्यायवैनेयश्चक्रे वाचकसंयमः ॥२॥ वत्सराब्धीन्दुखेटेन्दु(१९१४ धर्मजन्मसुवासरे । सुश्रेयावासलाभाय स्वेप्सिताय व्यरच्यत ॥३॥
संवत् १९६३ अधिकचैत्र शुक्ल ९ चन्द्रवासरे, लि० ऋ० मनसा ऋषिः पादलिप्तपुरे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org