SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २२] आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे तच्चरणाम्बुसेवालीनाः श्रीज्ञानधर्मधराः । तच्छिष्यपाठकोत्तंसदीपचन्द्राः श्रुतरसज्ञाः ॥२॥ नयचक्रलेशमेतत् तेषां शिष्येण देवचन्द्रेण । स्व-परावबोधनार्थं कृतं सदभ्यासवृद्ध्यर्थम् ॥३॥ शोधयन्तु सुधियः कृपापराः सत्त्वतत्त्वरसिकाश्च पठन्तु । साधनेन कृतसिद्धिसत्सुखाः परममङ्गलभावमश्नुवते ॥४॥ इति श्रीनयचक्रविवरणं समाप्त, श्लोकसंख्या ४००। [601] अन्तः---गच्छे श्रीमत्तपाख्येऽजनि रजनीकरस्पद्धिविस्फारकीतिः श्रीमानानन्दमेरुत्रिभुवनजनतानन्दनातन्द्रचन्द्रः । तच्छिष्यः पद्ममेरुः श्रुतसलिलनिधिः पारदृश्वा मितद्रुः श्रौत-स्मार्त्तागमानामसकलसकलब्रह्मवेदी विनेयः ॥१ स तस्य पद्मसुन्दरः प्रमाणसुन्दरं व्यधात् । प्रमाणयन्तु कोविदाः प्रामाणिकामिमां गिरम् ॥२॥ कराग्नि-जलधौन्दुके (१७३२) नृपतिविक्रमादित्यतो जगज्जनकृतोत्सवे प्रवरमाघमासे सिते । प्रमाणनयसुन्दरं जिनमताश्रितानन्दनं समर्थमुनिभिर्वरं लिखितमाशु हर्षप्रदम् ॥३॥ सर्वज्ञोदितहेतुयुक्तिनिकरैः स्याद्वादमुद्राङ्कितै र्जाग्रन्मोहमहाभरैकविलसन्मिथ्यादृशां यन्मतम् । तच्चानेकमहत्कदाग्रहजुषामेकान्तवादात्मकं तूर्ण जीर्णपटीतटीव शतधा संभिधते तत्क्षणात् ॥४॥ यन्नाम्नि० ॥ इति प्रमाणसुन्दरग्रन्थः समाप्तः । संवत् १९६५ सावण सुदि ११ ॥ इति श्रीप्रमाणसुन्दरग्रन्थः समाप्तः । संवत् १९६५ श्रावणवदि ७ लिपिकृतं ग० व्यास कस्तुरचन्द नगरपालीताणामध्ये ॥ [608] अन्तः इति श्रीसाधुपूर्णिमागच्छीयश्रीमदाचार्यगुणचन्द्रसूरिशिष्यपं० ज्ञानचन्द्रविरचिते रत्नाकरावतारिकाटिप्पनेऽष्टमः परिच्छेदः । सर्वग्रन्थाग्रन्थ २१०४॥ दुष्टव्यन्तरवादीन्द्रसर्पदाम्बुजाम्बुदः । जीयाद् विजयसिंहः श्रीसाधुराकाविधुर्गुरुः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy