SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [ २१ [537] अन्तः-इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः समाप्ता ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किञ्चदिह वितथम् ॥१॥ सूत्रमलध्यलिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोष-गुणयोस्त्यागोपादानविधिकुशलैः ॥२॥ छमस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥३॥ कृत्वा यदृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥४॥ मध्यस्थभावादचलप्रतिष्ठः सुवर्णरूपः सुमनोनिवासः । अस्मिन् महामेरुरिवास्ति लोके श्रीमान् बृहद्गच्छ इति प्रसिद्धः ॥५॥ तस्मिन्नभूदायतबाहुशाखः कल्पद्रुमाभः प्रभुमानदेवः । यदीयवाचो विबुधैः सुबोधाः कर्णेकृता नूतनमञ्जरीवत् ॥६।। तस्मादुपाध्याय इहाजनिष्ट श्रीमान् मनस्वी जिनदेवनामा । गुरुक्रमाराधयिताऽल्पबुद्धिस्तस्यास्ति शिष्यो हरिचन्द्रसूरिः ॥७॥ अणहिल्लपाटकपुरे श्रीमज्जयसिंहदेवनृपराज्ये । आसापूरवसत्यां वृत्तिस्तेनेयमारचिता ॥८॥ एकैकाक्षरगणनादस्या वृत्तेरनुष्टुभां मानम् । अष्टौ शतानि जातं पञ्चाशत्समधिकानीति ॥९॥ वर्षशतैकादशके द्वासप्तत्याधिके नभोमासे । सितपञ्चम्यां सूर्ये समर्थिता वृत्तिकेयमिति ॥१०॥ यन्नाम्नि० ॥ मुम्बापुरीवास्तव्यसुश्रावकरत्नटोकरशी शामजीनामधेय-सुपत्नी श्राविकारत्नदेवकीनामधेयेन स्वश्रेयसे इदं पुस्तकं मुनिवर्यपंन्यासपदधारककेशरविजयाह्वयपूज्यपादानां पठनार्थ समर्पितम् ।। संवत् १९६४ आश्विनसुदि १४ गुरुवासरे पालीताणामध्ये [583 ] अन्तः--गच्छे श्रीकोटिकाख्ये विशदखरतरे ज्ञानपात्रा महान्तः सूरिश्रीजैनचन्द्रा गुरुतरगणभृच्छिष्यमुख्या विनीताः । श्रीमत्पुण्यात् प्रधाना सुमतिजलनिधिपाठकाः साधुरङ्गाः तच्छिष्याः पाठकेन्द्राः श्रुतरसरसिका राजसारा मुनीन्द्राः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy