SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २४] . आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे - [629] अन्तः-श्रीमत्तपोगणनभोऽङ्गणभासनकभानूपमाः परमतापिमहःसमूहाः । शश्वन्नभोगरुचयः शुचयस्तपोभिः श्रीसोमसुन्दरगुरुप्रवरा बभूवुः ॥३०॥ तेषां संततिगणपतिलक्ष्मीलीलाविलासगोविन्दाः । . श्रीमल्लक्ष्मीसागरगुरवो गोपीवरा रेजुः ॥३१॥ यत्कृष्णवर्मा व्यभिचारिधूमानुमानसम्यक् समुदीरितं तत् । अकृष्णवर्माऽपि विशिष्टधूमोज्ज्वलच्छविर्यद् यशसां समूहः ॥३२॥ तत्पट्टोदयभूधरसहस्रकरसोदरा युगप्रवराः । श्रीसुमतिसाधुसूरीश्वरा जयन्त्यसमतममहसः ॥३३॥ हृत्कुण्डान्तरमण्डितोज्ज्वलतरध्यानाग्निना यैः स्फुरत् कामः श्यामतनुर्व्यधायि सहसा नष्टोऽथ दुष्टोऽसकौ । तापाक्रान्ततनुः सुधामयतनुं शिश्राय शीतद्युति तस्मिन् श्यामललाञ्छनच्छविमिषादद्याप्ययं वीक्ष्यते ॥३४॥ तेषां श्रीगणराज्ये विद्यागुणगौतमानुकारकृताम् । श्रीजिनहर्षगुरूणां शिष्यशिशुः साधुविजययतिः ॥३५॥ प्राथमिक-प्रमाणिकपठनायालिखद् यथावगमम् । प्रकरणमिदं सुधीभिः संशोध्यं मयि कृपां कृत्वा ॥३६॥ युग्मम् ॥ यः पठति वादिविजयप्रकरणमिदमादितोऽपि कौतुकतः । अहमहमिकया मोदाद् वृणुते तं साधुविजयश्रीः ॥३७॥ यन्नाम्नि० ॥ इति श्रीवादिविजयप्रकरणं समाप्तम् । संवत् १९६४ ना वर्षे चैत्रमासे कृष्णपक्षे तिथौ द्वादशी ने सोमवारे संपूर्णम् ॥ [984 ] अन्तः--तपगच्छगगनभासनभासुरतरचित्रभानुसंकाशाः । विजयानन्दमुनीन्द्रा आसन् गुणरत्नजलनिधयः ॥६॥ तच्छिष्यवर्गमुख्याः विबुधाः श्रीहंसविजयनामानः । तत्पदपङ्कजमधुपो विबुधो धीरादिविजयाह्वः ॥७॥ श्रीमौनैकादश्यां लिलेख माहात्म्यमतुलमोदभरात् । वेद-मुनि-वाह-शशधर(१७७४)वर्षे श्रीसूर्यपुरनगरे ॥८॥ युग्मम् ॥ श्रीविजयऋद्धिसूरेरादेशाद् विरचिता कथा मयका । यावद् व्योम्नि रवीन्दू तावन्नन्दतु चिरायैषा ॥९॥ इति श्रीमौनैकादशीचरित्रम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy