________________
१२]
आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे श्रीदेवविजयविदुषां शिष्योऽकृत शोभनस्तुतेर्वृत्तिम् । जयविजयः सुखबोधामल्पमतीनुपचिकीर्षुरिमाम् ॥३॥ श्रीशोभनस्तुतेर्वृत्तेः ग्रन्था प्रतिपाद्यते । पूर्णेन्दु-शर-शतैर्युक्तं सहस्रद्वितयं ( २५१०) मया ॥ ४॥ इति श्रीशोभनस्तुतिवृत्तिः संपूर्णा, ग्रन्थाग्रन्थः २५१०॥ [186]
वृ० अन्तः — श्रीमत्तपा गणनभोऽङ्गणपद्मबन्धु
र्भाग्याद कब्बर महीरमणादवाप्ताम् । ख्यातिं जगद्गुरुरिति प्रथितां दधानः श्रीकहीरविजयाभिधसूरिरासीत् ॥१॥ तत्पट्टे वरगुणमणिगणरोहण भूधरापीठे । सांप्रतमद्भुतयशसो विजयसेनसूखिराः ॥ २॥ गीतिरियम् ॥ वाचकचूडामणयः श्रीमन्तः शान्तिचन्द्रनामानः । विद्यागुरवो विबुधा विजयतां कमलविजयाश्च ॥३॥ एषां श्रीसुगुरूणां प्रसादतो नयन-बाण-रस-चन्द्रे (१६५२) । प्रमिते वर्षे रचिता वृत्तिरियं कनककुशलेन ||४|| प्रत्यक्षरं गणनया वृत्तौ संख्या चतुःशती । सप्तपञ्चाशता श्लोकैरधिका समजायत || ५॥
Jain Education International
अङ्कतो ४५७, ससूत्र- वृत्तौ ग्रन्थाग्रम् ५०१ ॥ इति चतुर्विंशतिजिनस्तोत्रवृत्तिः संपूर्णा ॥
[187]
अन्तः - - इति शम्बसाधुविरचितायां जिनशतकपञ्जिकायां वाग्वर्णनो नाम चतुर्थः परिच्छेदः समाप्तः ॥
जम्बूनामगुरुर्गुरुत्तमगुणोऽभूरचन्द्रगष्ठान्वयः
विद्वत्संसदि लब्धगौरवपदः साधुक्रिया सूद्यतः । किं वा तस्य निगद्यते मतिगुणो तस्येदृशी निर्गता
सुश्लिष्टा पदसंधिभिः सुघटितैः स्पष्टाक्षराली मुखात् ॥ १ ॥
तत्कृतस्यास्य ग्रन्थस्य गम्भीरार्थस्य मन्दधीः । मादृशः कुरुते वृत्तिं किमस्मादस्ति दुष्करम् ॥२॥
For Private & Personal Use Only
www.jainelibrary.org