________________
प्रशस्त्यादिसंग्रहः ।
[११ प्र. लक्ष्मीरङ्गमुनिलिखिता पुस्तिका। श्रीफलवर्द्धिकायां चतुर्मासिकस्थितायां श्रीऋषभ
देवस्वामिप्रसादात् ।
* संवत् १६३० वर्षे माघशुदि ९ सोमवासरे सारंगपुरनगरे वाचनार्थ गणिश्रीन्यानसागरगणिनाम् , लिखितं पांडे दासूः । शुभं भवतु ।
* संवत् १५६४ उत्पन्नपार्श्वचन्द्रमतधारक । संवत् १६६६ फागुणमासे लिपीकृता । लिखिता गणिराजसुन्दरगणिना परोपकाराय इत्यर्थः ॥
[173 ] अन्तः---श्रीमत्तपागणनभोऽङ्गणभास्कराभश्रीदेवसुन्दरयुगोत्तमपादुकानाम् ।
शिष्यैर्जिनागमसुधाम्बुधिभीतचित्तैः श्रीज्ञानसागरगुरूत्तमनामधेयैः ॥१॥ निधि-वह्नि-मनु (१४३९) मितेऽब्देऽवचूर्णिरेषा कृतौघनिर्युक्तेः ।
स्व-परोपकृतिकृते तद्विवृतेरुपरि स्फुटं जयतात् ॥२॥
इति श्रीद्रोणाचार्यनिर्मितवृत्त्यनुसारेणैदंयुगीनसुविहितसैद्धान्तिकशिरोऽलङ्कारकोटीरहीरयुगप्रधानावतारभट्टारकप्रभुश्रीज्ञानसागरसूरिपादविरचिता शिष्यहितोपयोगा समुद्रवेलेव नानार्थत्नप्रकाशिनी श्रीओघनिर्युक्त्यवचूरिः ।
[177] अन्तः-इति श्रीसमन्तभद्रस्वामिविरचितचतुर्शितिजिनस्तवानामवचूर्णिः संपूर्णा । अत्र धर्मजिनादिस्तवेषु क्रमेण छन्दः रथोद्धता १५ । उपजातिः १६ । वसन्ततिलका १७ । पथ्यावक्त्रं सान्द्रपदं श्रीवानवासिका १८ । वैतालीयम् १९। शिखरिणी २० । अर्धसमजातौ उद्गता २१ । स्कन्धकम् २२ । वंशस्थम् २३ ।
इति श्रीसमन्तभद्रस्वामिकृता चतुर्विंशतिजिनस्तुतिः समाप्ता । संवत् १९६५ रा मिति आषाढसुदि १० गुरुवासरे लिपीकृतं मुथा कीसनकरण नागोरमध्ये, ठि० माई दरवाजे ।
[1851 वृ० अन्तः-इति श्रीमवृद्धपण्डितदेवविजयगणिशिष्यपण्डितश्रीजयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीवर्द्धमानस्वामिनः स्तुतेर्व्याख्या । अथ प्रशस्तिः
श्रीविजयसेनसूरीश्वरस्य राज्ये सुयौवराज्ये तु । श्रीविजयदेवसूरेरिन्दु-रसार्बीन्दुमितवर्षे ॥१॥ समधीत्य वाचकेन्द्रश्रीमत्कल्याणविजयगणिशिष्यात् । श्रीधर्मविजयवाचकशिरोमणेः श्रुतनिधेर्यत् किञ्चित् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org