________________
१०]
आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे तच्छिष्योऽभूद् भेदको दुर्नयाना
माचारज्ञोऽन्वर्थनामा पृथिव्याम् । सत्साधूनां पाठको द्वादशाङ्गया
स्तेजोराजः पाठकः पापहन्ता ॥६॥ तत्सद्विनेय इह वाचकमुख्य आसीद
विद्याविनोदभुवनं भुवनादिकीर्तिः। श्रीहर्षकुञ्जरगणिश्च तदीय शिष्यो
वैराग्यमेव स च वाचक उदधार ॥७॥ लब्धिमण्डनगणिश्च ततोऽभूद्
वाचको विबुधवृन्दसुवन्द्यः ।। हेमकान्तविनयाङ्कितगात्रो
दुर्निवारहतमारविकारः ॥८॥ तच्छिष्यः परवादिवृन्दपवनप्रोद्भूतयुक्त्युच्छलत्
कल्लोलो कुसचञ्चलस्य महतो दुर्वादवारांनिधेः । निःपाने विलसन्मतिर्वरयतिर्यः कुम्भजन्माकृति
लक्ष्मीकीर्तिरिति स्फुरद्गणततिः श्रीमानभूत् पाठकः ॥९॥ श्रीमल्लक्ष्मीकीर्तिसत्पाठकस्य द्वौ गुर्वाज्ञाकारिणौ सद्विनेयौ । तत्राप्येको वाचकः सोमहर्षः साध्वाचारासेवने लब्धहर्षः ॥१०॥ साधुः श्रीयुग्वल्लभः सज्जनानां लक्ष्मीपूर्वी वल्लभश्च द्वितीयः । तेनाकारि प्रस्फुटा दीपिकेयं सिद्धान्तस्य ह्युत्तराध्यायनाम्नः ॥११॥ न्यूनाधिक्यं बुद्धिमान्द्यादयुक्तं तद्ज्ञैस्तद्वाग्दूषणं शोधनीयम् । क्षान्तिधर्मो ह्यस्ति छमस्थपुंसो जात्याश्वो वा प्रस्खलत्येव गच्छन् ॥१२॥ पूर्वप्रणीतास्वतिविस्तरासु टीकासु नो मत्सरिता ममास्ति । तेजस्तु ताभ्यः समवाप्य भास्वत् कृतात्मबोधाय सुदीपिकेयम् ॥१३॥
ग्रन्थाग्रन्थ १५३०० प्रमाणम् । संवत् १८५७ रा मिति कार्तिकसुदि ११ तिथौ भौमवारे । भट्टारकश्रीजिनहर्ष सूरिजीसूरीश्वराणां विजयिराज्ये भट्टारकश्रीजिनभद्रसूरिजीशाखायां उपाध्यायश्रीक्षमाप्रमोदजीगणिवरान् तशिष्यमुख्योपाध्यायश्रीउदयधर्मगणिवराणां, तच्छिण्यपं०प्र० श्रीरत्नकल्याणजीगणिवराणां, तच्छिष्यपं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org