SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [९ इति श्रीमुनीन्द्रश्रीमुनिचन्द्रविरचितायामावश्यकसप्ततिकायां श्रीदेवसुरिपूज्यपादपद्मोपजीविना श्रीमहेश्वराचार्येण विरचिता सुख प्रबोधिनीवृत्तिः समाप्ता ॥ [135 ] अन्तः-संवत् १८५२ वर्षे मिति पोषसुदि ५ दिने लिखितं जती भवानीरामः, सुश्रावकदेव-गुरुभक्तिकारकसेठश्रीधर्मचन्द्रजीकस्य पठनहेतवे । स्तबकमान्ते—अन्यकृतः टबार्थस्तदेव किञ्चिद् विशेषतो लिखितः अनोपकुशलेन । ग्रन्थानम् श्लोक-सूत्रार्थसंख्याद्विकसहस्र २०१० । लिखितमिदं शास्त्रं श्रीसुरतबिंदरमध्ये गोपीपुरे ओसवालमहिलै सेठश्रीभाईदासजीनी धर्मशालायां स्थितः सन् । [ 164 ] अन्तः-गच्छे स्वच्छतरे बृहत्खरतरे जाग्रद्यशोभासुरे __ श्रीमान् सूरिरभूज्जिनादिकुशलः प्रौढप्रतापान्वितः । यन्नामस्मृतमात्रमेव हृदये विघ्नौघविद्रावणे संधत्ते महिमानमत्र विततं दत्ते मनोवाञ्छितम् ॥१॥ तच्छिष्यो विनयप्रभः समभवत् श्रीपाठकः पुण्यवान् सिद्धान्तोदधितत्त्वरत्ननिकराविष्कारदेवाचलः । यद्वासिन्धुरपाकरोन्मतिमतां मिथ्यामलं मानसं । श्रोत्रद्वारगता महातिसरला हृद्याऽनवद्या सदा ॥२॥ तदनु सदनं कारुण्यसुप्रभावनिधिर्महान् विजयतिलकः ख्यातो भूमौ बभूव महामतिः । सकलविशदोपाध्यायानां शिरोमणिसंनिभः । विविधविबुधश्रेणिस्तुत्यः सदागममर्मवित् ॥३॥ तुष्टा वाचकपुङ्गवाश्च तपसा ध्यानेन शीलेन वा यस्मै पार्श्वजिनाहिसेवनपरा पद्मा ददौ वाग्वरम् । शिष्यान् भूरितरान् चकार स ततः श्रीक्षेमशाखा ततः शाखीव व्यरुचत् तया च मरुतां श्रीक्षेमकीर्तिगुरुः ॥४॥ सुशिष्य क्षेमस्य प्रकटशमशिक्षा प्रददतं [पाध्यायं ध्यानं हृदि जिनवराणां विदधतम् । महामेधा नावागमजलधिलब्धोत्तमतटं तपोरत्नं....मुनिषु भजत भ्रान्तिरहितम् ।।५।। प्रशस्ति २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018009
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages518
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy