SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ४५४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे यस्यां विभान्ति धवलाः क्षीरोदे स्फटिकालयाः । अक्षभाक्षमहाराजयशसां निचया इव ॥११॥ यस्य यद्विषतां चैव कीर्त्यकीर्ती सितासिते । मिलन्त्यो दिक्षु चक्रान्ते गङ्गा-यमुनयोर्धमम् ॥१२॥ रिपुदुर्यशसाऽस्पृष्टं यद्यशो वन्द्यपावनम् । जलाशयेषु स्नातीव शुद्धयै हंसावलीच्छलात् ॥१३॥ कन्दमूलफलाहारावसानास्तारवीं त्वचम् । भूधूल्युद्धलिता रेजुर्यद्विषस्तापसा इव ॥१४॥ स्याद् विष्णुर्यत्प्रतापाग्निवडवाग्निजिगीषया । विद्रुमद्रुमदम्मेन विशतीव पयोनिधौ ॥१५॥ विरश्ची रचयन् भ्रान्तिमभ्रान्तं सोम-सूर्ययोः । व्यधान्नीराजनां नित्यं यस्य कीर्ति-प्रतापयोः ॥१६॥ बद्धमुष्टिरपि स्वर्ग सङ्ख्यामितेषु शत्रुषु । रणे यच्छन् कृपाणोऽस्य मात्राहीनो बभूव यः ॥१७॥ तस्यादेशं समासाद्य सौमनस्यपयोनिधेः । वृत्तिं वसन्तराजस्य सिद्धिचन्द्रेण शोध्यते ॥१८॥ इति पातसाहश्रीअकबरजलालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयकरमोचनाद्यनेकसुकृतविधायकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याऽष्टोत्तरशतावधानसाधनप्रमुदितपातसाह - श्रीअकब्बरजलालदीनप्रदत्तखुष्फहमानपराभिधान-महोपाध्यायश्रीसिद्धिचन्द्रगणिना शोधितायां विशंति तमो वर्गः ॥२०॥ द्वितीयपुस्तकाभावादर्थानाकलनादपि । यद्यशुद्धं भवेत् किञ्चित् तच्छोध्यं करुणापरैः ॥१॥ [7525] आदिः- उपास्महे परं ज्योतिर्योतितान्तरविग्रहम् । यदुद्द्योताज्जगत् कृत्स्नं प्रत्यक्षमिव वीक्ष्यते ॥१॥ यस्याः प्रसादादन्योऽपि नीरक्षीरविवेकवान् ।। हंसोन्नतां तमोहन्त्रीं स्तुवे भागवती गिरम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018008
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy