________________
१. प्रशस्यादिसंग्रहः ।
[४५३ लक्ष्मीलीलाकटाक्षस्त्रिभुवनजनताकल्पनाकल्पशाखी
श्रीमद्धर्मप्ररोहाभिनवघनघटामङ्गलाह्वानविद्यः । व्यक्तं मुक्तयङ्गनाया वशकरणकलाकार्मणं सर्वसम्पत् . .
__ संप्राप्तावादिबीजं भज परमहसो नाम माहात्म्यधाम ॥१॥ अस्ति श्रीमदु[दारवाचकसभालङ्कारहारोपमः
प्रख्यातो भुवि हेमसूरिसदृशः श्रीभानुचन्द्रो गुरुः ।। श्रीशत्रुञ्जयतीर्थशुल्कनिवहप्रत्याजनोद्यद्यशाः
__शाहिश्रीमदकब्बरापितमहोपाध्यायदृप्यत्पदः ॥२॥ तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी
शाहिस्वान्तविनोदनैकरसिकः श्रीसिद्धिचन्द्रोऽस्ति सः । पूर्व श्रीविमलाद्रिचैत्यरचना दूरीकृता शाहिना
विज्ञप्यैव मुहुर्मुहुस्तमधियं योऽकारयत् तां पुनः ॥३॥ यावत्या किल भाषया प्रविदितान् ग्रन्थानशेषांस्तथा
चिन्तारत्नमुखांश्च यं गुरुधियं ध्यात्वा नृपोऽध्यापयत् । दृब्ध्वा चाप्यवधानसाधनकलां चेतश्चमत्कारिणी
चक्रे खुष्फहमेति विश्वविदितं गोत्रं यदीयं महत् ॥४॥ तच्चित्तकौतुककृते हि वसन्तराजसच्छाकुनस्य विवृति प्रणयत्यभिज्ञः । श्रीसूरचन्द्रचरणाम्बुजचञ्चरीकः श्रीशाहिराजकृतसत्कृतिभानुचन्द्रः ॥५॥ जम्बूद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि । राजते रजतस्वर्णचतुर्वर्णविभूषितम् ॥६॥ अर्बुदाद्रिसमीपस्थं सारणेश्वरशोभितम् । सीरोहीनगरं तत्र तिलकं नगरीषु यत् ॥७॥ युग्मम् ॥ नीलरत्नमहासौधरश्मिवल्लिवितानके । यत्र रात्रिषु कुर्वन्ति तारकाः सुमविभ्रमम् ॥८॥ मुखैश्चान्द्रमसैनॆत्रै : कमलैः कोकिलैः स्वरैः । गमनै राजहंसं च जिग्युर्यत्राबला अपि ॥९॥ प्रतापाक्रान्तदिक्चक्रः साक्षाच्छक इवापरः । श्रीमानखयराजाख्यस्तत्रास्ते भूमिजम्भजित् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org