________________
प्रशस्त्यादिसंग्रहः।
[४५५ वाञ्छितातिप्रदानत्वाद् गुरून् कल्पतरूनिव ।
शाकुनाख्यं महाज्ञानं किञ्चिद् वच्मि समासतः ॥३॥ अन्तः- दुरन्तदारिद्रयतमोनिहन्त्री ज्ञानद्रुमाकूरजनुर्धरित्री ।
मनीषिणां कण्ठमलङ्करोतु शास्त्राब्धिजा शाकुनरत्नमाला ॥४॥ सारं गरीयः शकुनार्णवेभ्यः पीयूषमेतद् रचयांचकार । माणिक्यसूरिः सुगुरुप्रसादाद् यत्यानतः स्याद् विबुधप्रमोदः ॥५॥ गुम्फेऽस्मिन् यत् कूटं संजातं बुद्धिविभववैकल्यात् । कृत्वा मयि प्रसादं तत् सर्वं शोधयन्तु बुधाः ॥६॥ वसु-वह्नि-वह्नि-चन्द्रेऽब्दे(१३३८) सुयुजे पूर्णिमातिथौ रचितः ।
शकुनानामुद्धारो अभ्यासवशादस्तु चिद्रूपः ॥७॥ इत्याचार्यश्रीमाणिक्यसूरिविरचिते शाकुने सारोद्धारे सर्वसंग्रहप्रकरणमेकादशमम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org