________________
१. प्रशस्त्यादिसंग्रहः।
[४४५ शिष्यि] पं० श्रीश्री१९श्रीपं० राजेन्द्रविजयगणि-शिष्यसुन्दरविजयेनेदं पुस्तकं लिखितं श्रीलाकडीयाग्रामे लेखक-पाठकयोश्चिरायुभवतु । इति श्रीजन्मपत्रिकाविचारसर्वत्राधिकारः समाप्तः ॥
[7226] आदिः- श्रीशाङ्गिणः सृजतु वो नवसन्निवेश: क्लेशव्ययं चलचलन् नयनाञ्चलश्रीः ।
यत्राञ्चलग्रथनमङ्गलमाचचार शृङ्गारहारमणिकौस्तुभरश्मिगुम्फः ॥१॥ संवर्यगर्ग:भृगु-भागुरि-रैभ्यगीर्थ्यः सारं वराहमिहिरादिमतानुसारम् ।
स्फारस्फुरत्परिमलाड्यफलं विवाहवृन्दावनं विरचयामि विचाररम्यम् ॥२ । अन्त:- आसीद् भरद्वाजमहर्षिवंशे विश्वावतंसे श्रुतितत्त्ववेदी ।
औदिच्यचारित्रपथप्रवर्ती जनार्दनो याज्ञिकचक्रवर्ती ॥१॥ अस्ति श्रियाऽऽदित्य इति स्म तस्य सूनुः श्रियाऽऽदित्य इव द्वितीयः । त्रिस्कन्धपारङ्गमरङ्गमल्लस्तस्यात्मजो राणग इत्युदीयः ॥२॥ श्रीकेशवः सुकविरध्ययनाध्वनीनव्यूहान् प्रतर्पयितुमथपयःप्रवाहैः । दैवज्ञराणगसुतः सुतपःश्रयेऽस्मिन् वृन्दावने मुनिगवीनिवहं दुदोह ॥३॥ अबहुधृष्टधियः कियदप्यदः पदगभीरमधीरभिरंस्यते । विशदशास्त्रधियां त्विदमेकदा श्रतिगतं रचनासु विवृत्स्यते ॥४॥
इति श्रीसकलागमाचार्यवर्यश्रीकेशवसांवत्सरविरचिते श्रीविवाहवृन्दावने वंशवर्णनाध्यायः ॥१०॥ अन्तः- अत्र ग्रन्थकृदुक्तियुक्तिममलां व्याख्याय सम्यक् तत
स्तत्कुत्रापि महद्विरोधि कुत्रचिद्(:) व्यर्थं तथैवोच्छ्रितम् । सद्युक्तया तु निरस्य सारमुदितं तत् क्षम्यतां सज्जनै
स्तद्विश्वासवतां प्रतीतिरिह न स्यात् तद्धि मन्त्रं विना ॥१॥ पश्चात् सागरपूर्ववर्तितटगे ग्रामेऽत्र नन्द्यादिके
रम्ये पूगरसालशीर्षनिचुले दृब्धायने संवसन् । नानाशास्त्रकलाकलापचतुरश्री केशवस्यात्मज
__ष्टीकां युक्तिमती गणेशविबुधो वृन्दावनस्याकरोत् ॥२॥ रस-नग-मनुतुल्ये(१४७६) शाकेऽप्यानन्दवर्षे (वि० सं० १६११)। विवृतिमकृत शस्तां दीपिकाख्यां गणेशः ॥३॥ .
इति श्रीसकलागमाचार्यवर्यश्रीकेशवसांवत्सरात्मजश्रीगणेशसांवत्सरविरचितायां विवाहवृन्दावनटीकायां वंशवर्णनपूर्वकं ग्रन्थालङ्काराध्यायः समाप्तः ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org