________________
४४४]
मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे
[ 7159]
आदि:- प्रणम्य सवईपदारविन्दं सूरिर्महेन्द्रस्य पदाम्बुजं च । तनोति तद्गुम्फितयन्त्रराजग्रन्थस्य टीकां मलयेन्दुसूरिः ॥
अथ प्रथमतः प्रचिकमिषितस्य सकलगणितसारभूतस्य यन्त्रराजग्रन्थस्य निरन्तरायनिर्वापणाय शब्दाचारपरिपालनाय शिष्यप्रशिष्यपरम्परासु प्रचयगमनाय च भक्तजनमनःसंकल्पकल्पद्रुमायमाणस्वाभीष्टदेवतागुरुनमस्कारपूर्वकं प्रयोजनसहितं ग्रन्थाभिधेयमभिधत्ते ग्रन्थकारः ।
श्रीसर्वज्ञपदाम्बुजं हृदि परामृश्य प्रभावप्रद
श्रीमन्तं मदनाख्यसूरिगुरुं कल्याणकल्पद्रुमम् । लोकानां हितकाम्यया प्रकुरुते सद्यन्त्रराजागमं नानाभेदयुतं चमत्कृतिकरं सूरिर्महेन्द्राभिधः ॥१॥
अन्तः - अथ योगानयनमाह - कालवृत्ते मकराननाग्रात् सूर्याङ्कचन्द्रार्कयोर्योगे साधिते त्रिभिर्हते चत्वारिंशद्विभक्ते यद् लब्धं तदेव योगवृन्दे विष्कम्भादयोग ० ॥ [7195]
अन्तः - अन्यबलाबलशुभाशुभयोगदशाक्रमफलं पुंवद् ज्ञेयं सुधीभिः । संवभू-बाण-भोज्य (१७५१ ) प्रमितगतसमे राज्यतो विक्रमस्य
मासे सत्कार्तिकाख्ये विशदवरदले रामसखये तिथिज्ये । सौराष्ट्रे शुद्धतीर्थे प्रमुदितजनके रोगशोकार्तिनाशे
वेलाकुलेऽतिरम्ये प्रचुरधनयुते बिन्दरे चारुहम् ॥ १॥ सच्छुभ्रैर्गुणराशिके युतवतां चारित्रलीलायुषां
विद्यागर्वितवादिवृन्दकमलप्रोन्मूलने दन्तिनाम् । श्रीमत्पाठकचारुदत्त सुगुरोः सेवापराणां सतां
श्रीकल्याणनिधानचारुयशसां शिष्येण वै [ कुर्वता] ॥२॥ लब्धिचन्द्रेण सत्प्रीत्या स्वस्मै परहिताय वा । सुबुद्धिपद्धतिरम्या कृता सज्जनसौख्यदा ॥ ३ ॥ भ्रान्त्याऽशुद्धं मया किञ्चिद् लिखितं पद्धतौ हि यत् । तच्छोध्यं पण्डितैराशु कृपापूरितमानसैः || ४ ||
इति श्रीलालचन्द्र पद्धतिः सम्पूर्णा जन्मपत्रीया ।
संवत् १८५३ वर्षे शाके १७१८ प्रवर्त्तमाने (पोसः वैः) आशुवद१३ शुक्रवासरे संपूर्णमगमत् । सकलपण्डितशिरोमणिपू०श्री १०८ श्रीमोहनविजयगणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org