________________
१. प्रशस्त्यादिसंग्रहः।
[४५३ इति स्वकृतमुहूर्त्तमार्तण्डटीकायां मार्तण्डवल्लभाभिधाना समाप्ता ॥ संवत् १७३९ वर्षे शाके १६०४ प्रवर्तमाने मासोत्तममार्गशीर्षसुदि ५ शुक्रे तदिने पूनिमगच्छे भ०महिमाप्रभसूरिभिरलेखि ।।
[71581 अन्तः- परःशताः सन्तु कवीश्वराणां स्वार्थोपपत्त्यै गणितप्रबन्धा[:] ।
अस्माकमेतत् किल केवलाय परोपकाराय विधानमत्र ॥६२॥ ग्रन्थेऽस्मिन् यन्त्रराजस्य गम्भीराम्भोनिधाविव । दुर्बुद्धयो निमज्जन्ति कुग्राहपरिपीडिताः ॥६३॥ गुरूपदेशं प्रबलं यानपात्रमिवाश्रिताः । सद्बुद्धयस्तरन्त्येव वितत्य गणितं पटम् ॥६४॥ विद्येयं महती प्रोक्ता गहने गणितागमे । कुशिष्याय कृतघ्नाय द्विष्टायैतां ददीत न ॥६५।। श्रीयन्त्रराजोपरि सन्निषण्णा कण्ठे सतां मौक्तिकमालिकेव । तनोति शोभा परमां गुणाढ्यपरीक्षकान् स्वोन्मुखतां नयन्ती ॥६६॥ सूर्याचन्द्रमसौ यावद् दीपयेतां जगद्गृहे । ग्रन्थोऽयं यन्त्रराजश्च तावनन्द्याद् गुरूदितः ॥६॥ अभूद भृगुपुरे वरे गणकचक्रचूडामणिः
कृती नृपतिसंस्तुतो मदनसूरिनामा गुरुः । तदीयपदशालिना विरचिते सुयन्त्रागमे
महेन्द्रगुरुणोदिताऽजनि विचारणा यन्त्रजा ॥६८॥ श्रीपीरोजमहीन्द्रसर्वगणकप्रेष्ठो महेन्द्रप्रभु
र्जातः सूरिवरस्तदीयचरणाम्भोजैकभृङ्गद्युता । सूरिश्रीमलयेन्दुना विरचितेऽस्मिन् यन्त्रराजागमे
___व्याख्याने प्रविचारणादिकधनाध्यायोऽगमत् पञ्चमः ॥६९॥
सम्पूर्णा श्रीयन्त्रराजाध्यायस्य टीका कृतिरियं श्रीमद् बृहद्गच्छमण्डनश्रीमहेन्द्रसूरिशिष्यश्रीमलयचन्द्रसूरीणाम् । इति श्रीयन्त्रराजागमे स्पष्टाऽध्यायः पञ्चमः सम्पूर्णोऽयं श्रीयन्त्रराजः सवृत्तिकः । संवत् १७८३ वर्षे आश्विनमासे शुक्लपक्षे १३ दिने बुधवासरे लिखितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org