SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ४४६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्रीगुरवे नमः । संवत् १९०१ तत्र फाल्गुने मासे शुक्ले पक्षे तृतीयायां भौमदिवसे टाण्डे नगरेऽलेखि दैवज्ञवर्यपण्डितदेवीसहायेन कालीयज्ञातीयेन चिरञ्जीविकपूज्यबिहारीऋषिसत्पुरुषस्य पठनार्थ देव्याः प्रसादात् शुभमस्तु । [7228] अन्तः- कायस्थवंशाम्बुनिधेः पृथिव्याः श्रीब्रह्मदासः शशिलाञ्छनोऽभूत् । तारेव देवी नयजा च ताभ्यां नारायणो ज्ञो हरिभक्त आसीत् ॥४१॥ इति श्रीब्रह्मदासपुत्रश्रीनारायणदाससिद्धविरचिते वैष्णवे शास्त्रे पञ्चदशोऽध्यायः सम्पूर्णः । सं०१६६२ वर्षे मृगशिरमासे शुक्लपक्षे द्वितीयातिथौ शनिवासरे लिखितं श्रीजावालपुरमध्ये दामोदरेण स्वार्थे । [7246] मू॰आदिः- नत्वा तां श्रुतदेवतां त्रिसमयज्ञानोद्गतेः कारणं तत्पादाम्बुरुहप्रसादविकसद्बोधो बुधः श्रीपतिः । शिष्यप्रार्थनया विचार्य सकलान् होरागमार्थान् मुहु वक्ष्ये जातककर्मपद्धतिमहं होराविदा प्रीतये ॥१॥ आदिः- आश्वसेनिचरणाम्बुजयुग्मं सद्गुरूंश्च हृदये विनिधाय । भारती भुवनविस्तृतभासं पद्धतेश्च विदधामि सुवृत्तिम् ॥१॥ मृ०अन्न:- इति जातककर्मपद्धतिं गुरुपादाब्जयुगप्रसादतः । इह शिष्यजनप्रबोधिनी कृतवान् श्रीपतिरग्रजाग्रणीः ॥११॥ वृ०आदि:- श्रीमदञ्चलगणोऽस्ति विवेकिच्छेकसच्छविमुनीशसरोजः । मानसः प्रविततागमपक्षो दूरतो गतकुबोधविपक्षः ॥१॥ जयन्ति हि चिदानन्दमहानन्दप्रदायिनः । श्रीमविवेककल्याणसागरा मानसौकसः ॥२॥ आसंश्च तच्छासनकारिणो बुधाः श्रीहर्षरत्नाभिधपाठकोत्तमाः । सिद्धान्तपाठ-गणितादिकागमज्ञा ज्ञानप्रवीणा विदिता यशस्विनः ॥३॥ सिद्धान्तब्रह्मतुल्यादिग्रहसाधनहेतवे । सुखोपायः कृतो यैः सुशिष्यानामनुकम्पया ॥४॥ तच्छिष्येण विनिर्ममे सुमतिना हर्षेण सत्पद्धतेः __वृत्तिर्दैवविदां सुखार्थजननी श्रीमद्गुरोर्भावतः । ... श्रीमत्पार्श्वशिवा(?)प्रसत्तिनिभृता पद्मावतीपत्तने । वर्षे राम-मुनीश-षोडशमिते(१६७३) शुभ्रेऽथ षष्टीदिने ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018008
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy