SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ४३२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे ध्वस्तैकान्तगहध्वान्तं स्यात्काराऽशीतरश्मिना । सदनुष्ठानफलोपेतं जयताज्जैनदर्शनम् ॥१॥ विशदकनकगात्रो रत्नपात्रो गुणाढयो विविधफलविशालामागमालिं दधानः । सकलसुरविभूनां सेव्यसामीप्यदेशो जयति सततमर्हन् वर्द्धमानः स्वरद्रिः ॥२॥ श्रीवर्द्धमानात् सुपरम्पराप्ते पट्टेऽभवत् सूरिवरः श्रियाऽऽव्यः । चन्द्रप्रभाख्यो विधुकान्तिकीर्तिः श्रीपौर्णिमीयाभिधपक्षगच्छेः ॥३॥ श्रीसिद्धराजसदसीह विजित्य सूरीन् वादं विधाय बत षण्मितमासकालम् । यः पूर्णिमां जिनवरागमसूक्तियुक्त्या सत्योद्दधार दृढधीरनवद्यकृत्यः ॥४॥ तत्पट्टेऽभूत् श्रिया युक्तो धर्मघोषस्ततो यतः । ख-द्वि-चन्द्रमिता १२० जाताः शाखाः पौर्णिमिकाभिधाः ॥५॥ परम्पराप्ते क्रमतस्ततः श्रीविद्याप्रभः सूरिवरोऽत्र पट्टे । बभूव शास्त्रार्थसुधासमुद्रप्रोल्लासने चन्द्रसमानधर्मा ॥६॥ ललितप्रभसूरिकुञ्जरोऽजनि पट्टे तत आश्रितः श्रियम् । विनयप्रभसूरिपुङ्गवोऽजनि पट्टे तत आश्रियम् ॥७॥ तत्पट्टपूर्वाचलभानुमन्तो जयन्ति शश्वत् किल सूरिराजाः । . नाम्नार्थतश्चापि गुणैरशेषैः सर्वोत्तमैः श्रीमहिमाप्रभाख्याः ॥८॥ येषां प्रतापतपनश्च यशःसितांशु व्यम्बरे स्वरि समस्तपदे प्रयातः । नित्योदयौ विदधतौ खलराहुनाशं चित्रं यतो न महताममितोऽनुभावः ॥९॥ आप्तोक्तौ परिपूर्णनिर्मलमतिः शब्दानुशास्तौ प्रधीः काव्ये कर्कशतर्कशास्त्रकलने गाणितशास्त्रे तथा । साङ्गे श्रीमहिमाप्रभाख्यसुगुरुः सूरीश्वरो राजते ___ख्यातः सर्वगणे परोपकरणाद् विद्यादिदानेन वै ॥१०॥ तच्छिष्योऽभूद् भावरत्नाभिधानस्तत्पादाब्जोपासनासक्तचित्तः । एतत्कृत्या कालिदासस्य गुा ज्ञातार्थो यस्तद्गुरोनिलाभात् ॥११॥ तेनासौ सुखबोधिका सुललिता ज्योतिर्विदां तुष्टये शास्त्रस्यास्य कृता यथामति मया शोध्या सुधीभिर्यतः । संश्लिष्टानि पदान्यनेकश इहैकैकाक्षराख्यान्यपि काठिन्यं कविना गिरां समुदितं त्याज्यं खलत्वं पुनः ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018008
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy