SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [५३१ श्रीआयरक्षितगुरोः प्रथिते विशाले गच्छे लसन्मुनिकुले विधिपक्षनाम्नि । सूरीश्वरा गुणनिधानसुनामधेयाः आसन् विशुद्धयशसो जगति प्रसिद्धाः ॥१॥ तत्पट्टपूर्वाचलचित्रभानुः श्रीधर्ममूर्तिः गणनायकश्च ।। विराजते सम्प्रति यद्गुणाली सर्वासु दिक्षु प्रथिता विभाति ॥२॥ अनन्यसौजन्यविहायितादिगुणप्रकर्षप्रभवं यशश्च ।। प्रगीयते यस्य दिगन्तसंस्थैर्जनैः प्रमोदाधिकसत्कपोलम् ॥३॥ मूर्तिः प्रसन्ना हृदयोत्थतापनिर्वापका वाग्लहरी सुशीता । दृष्टिः सुधावृष्टिरिव प्रमोदविधायिनी सद्गुरुधर्ममूर्त्तिः ॥४॥ शास्त्रग्रहणे येषामाजन्म व्यसनमेकमेव शुभम् । संवेशेऽपि ध्यानं ज्ञानस्य प्रवहणान्यस्य ॥५॥ केवलमुपकारार्थ स्वसमय-परसमयसङ्ग्रहो येषाम् । विविधोपायैः सततं सर्वैरादेयवचनानाम् ॥६॥ श्रीमज्जन्ममहोदधिनाम्नो ग्रन्थस्य खलु पुस्तकम् । उपदेशादिदं तेषां लिखितं सदुपासकैः ॥७॥ कल्याणसागराचार्यादिभिः संवित्तिशालिभिः । वाच्यमानं विनेयैश्चाकाशे नन्दन्तु सर्वदा ॥८॥ [6827] आदिः- श्रीमान् पार्श्वजिनोऽतिशेषकगणं प्राप्तः प्रभुः पूर्णगी क्षिप्तप्रचलल्कुयोगकमठप्रौढिः प्रजानां पुरः सत्कीर्त्या नकनादपूरितजगत्साकल्य इष्टार्थदो गीर्वाणेश्वरसेवितो विजयते विश्वैकचिन्तामणिः ॥१॥ नत्वा गुरुं गिरमपीभमुखं च खेटान् __ श्रीकालिदासकविशक्रविनिर्मितस्य । ज्योतिर्विदाभरणनामवरागमस्य - सन्तन्यते गुरुकृपं सुखबोधिकेयम् ॥२॥ श्रीपत्तने प्रवर पौर्णिमिकाहगच्छे ढण्ढेरपाटकशुभाश्रयसंश्रितानाम् । श्रीयुक्तपूज्यमहिमाप्रभसूरिराजां शिष्येण भावमुनिना मयका यथाचित् ॥३॥ युग्मम् ॥ वृ० अन्त:- अथ सुखबोधिकाकृत्प्रशस्तिमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018008
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy