SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [४३३ परिश्रमोऽयं सफलो ममाऽस्याः स्ताद् वाच्यमाने विलेखनेन । सतां प्रसादाच्च ततो दधानैः खलैः खलत्वं जगतीह किं स्यात् ? ॥१३॥ सज्जनेभ्यो नमो नित्यं खलेभ्योऽपि नमो नमः । भवन्त्येके गुणज्ञा यद् दोषज्ञास्त्वपरे दृढम् ॥१४॥ उभयेषां कृपादृग्भिः कृतिम यातु शुद्धिताम् । अग्निक्षारे यथा हेम निर्दोषं च सुवानताम् ॥१५॥ श्रीविक्रमादिहि-षड्-हयोर्वी (१७६८) मिते गतेऽब्दे खलु राधमासे । शुक्ले तृतीयेऽथ तिथौ गभस्तिवारे समाप्ता सुखबोधिकेयम् ॥१६॥ इति श्रीपौर्णिमीयगच्छाधिराजभट्टारकपुरन्दरश्री५श्रीमहिमाप्रभसूरीश्वरचरणसरोरुहचञ्चरीकायमानशिष्य भावरत्नविरचितायां श्रीकालिदासकृतज्योतिर्विदाभरणस्य सुखबोधिकायां ग्रन्थाध्यायनिरूपणक्रमश्रीविक्रमार्कनृपवर्णनो नाम द्वाविंशतितमोऽध्यायः सम्पूर्णः ॥२२॥ गच्छे श्रीमहिमाप्रभाख्यसुगुरोः श्रीपौर्णिमीयाभिधे शिष्यः सूरिवरस्य माण्डणसुतो यो भावरत्नाभिधः । वाहलांकुक्षिसमुद्भवः स कृतवान् श्रीपत्तने पत्तने छन्दो-व्याकरणाऽभिधास्मरणतोऽलंकारयुक्ता मिमाम् ॥१॥ चक्रवालधिमारूढो बरडाहो महाबली । सुखाय क्षेत्रपालोऽस्तु राकापक्षकधारिणाम् ॥२॥ अस्य मूलग्रन्थस्य सर्वाध्यायराशिकृतवृत्तसंख्या १४२०। श्लोकमानं तु २४२०। अथ वृत्तेः संख्या सप्तसहस्राः ७००० । सूत्रवृत्तिमीलने १०४२० (९४२०) अनुष्ठभ्यां(ष्टुभाम् ॥ [6826] आदिः- सावर्णब्रह्मविद्यापरिचयचतुरं श्रीशुकं व्यासपुत्रं __ नत्वाचार्य मुनीनां हरिपदकमले प्रेम विश्वासमाजाम् । शिष्टं श्रीस्वेष्टदेवं श्रुति[स]मधिगतं माधवं भावयित्वा भावरुद्भाव्य तस्मै प्रवरमतिमुदे जातकालंकृतिश्रीः ॥११॥ अथ ज्योतिर्वित्तिलकश्छन्दोलङ्कृतिकाव्यरचनानिपुणः श्रीगणेशकविः श्रीशुकजातकानुरोधजातकालंकारकनाम ग्रन्थं चिकीर्षुस्तत्रादौ० । अन्तः- अभूदवनिमण्डले गणकमण्डलाखण्डल: श्रुति-स्मृतिविहारभूर्विबुधमण्डलीमण्डनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018008
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy