SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ [४१९ www.www.wwmonawar अन्तः प्रशस्त्यादिसंग्रहः । आत्रेयं चरकं च [सु]श्रुतमथो भोजाभिधं वाग्भटं सद्वृन्दं गदनागसिंहमतुलं पाराशरं सोढ लम् । हारीसं तिसरं च माधवमहाश्रीपालकाय्यादिकान् सद्ग्रन्थानवलोक्य साधुविधिनैवैतांस्तथान्यानपि ॥५॥ यः श्वेताम्बरमौलिमण्डनमणिः सत्पूर्णिमापक्षवान् यस्यास्ते वसतिः समृद्धनगरे व्यंबावतीनामके । नत्वा श्रीगुरुभावरत्नचरणौ ज्ञानप्रकाशप्रदौ सबुध्या जयरत्न आरचयति ग्रन्थं भिषक्प्रीतये ॥६॥ सवैद्यकष्टमणिभूषणकान्तिहेतौ ग्रन्थोत्तमे ज्वरपराजयनामकेऽस्मिन् । ज्ञानप्रकाशनरवौ मुनिरूपणं स्यादुत्पत्तिरूपपरिचिह्नचिकित्सितानाम् ॥७॥ भूमिमण्डलमण्डनं सुनयनः पुंसादिरत्नाकरः ___सव्यत्वेन समं सदादिविदुषां लोकस्य धर्मायनम् । पूर्णः सर्वसमुद्रेभिः सुरितां (?) पुण्याम्भसा प्लावितः .. श्रीमद्गुर्जरनामकोऽस्ति विषयोऽनेकप्रदेशाग्रणीः ॥३५।। तस्मिन् धार्मिकनित्यदानसलिलः स्रोतःपवित्रीकृतो त्तुङ्गादभ्रजिनालयावलिमती स्वीकलक्ष्म्यास्पदम् । विद्वद्भिः समलंकृता सुरपुरीस्पीकरी सर्वदा सेयं सर्वपुरोत्तमाऽस्ति नगरी व्यंबावतीसंज्ञका ॥३६॥ तत्र श्रीभावरत्नाभिधगुरुरभवत् सर्वशास्त्राधिवेत्ता दानाच्चातुर्यसिन्धुर्जिनपदकमलद्वन्द्वसेवासुनिष्ठः । विद्वद्वृन्दप्रवन्धः सकलगुरुवरैः संयुतोऽन्वर्थनामा नानाभावप्रवीणो जितकरणवयो विश्वविस्ता[र] कीर्तिः ॥३७॥ तस्यास्ति शिष्यो जयरत्ननामा संनामितानन्तगुणीन्द्र[वृन्द]: । दयानिधानं सुकविः कलावान् तद्वैववन्द्यः प्रथितः पृथिव्याम् ॥३८॥ अपि च सुविधिरत्नाद्या भवन्त्यस्य शिष्याः नृपतिसदसि मान्याः सत्कलानां कलीयैः । नयविनयविवेकानेकलोकातिरेका । गुरुचरणसुभक्ताः स्वीयधर्मानुरक्ता[:] ॥३९॥ श्रीविक्रमाद् द्वि-रस-षट्-शशिवत्सरेषु (१६६२) यातेष्वथो नभसि माससिते च पक्षे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy