SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ४२०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तिथ्यामतप्रतिपदि क्षितिसूनुवारे ग्रन्थोऽरचि ज्वरपराजय एष तेन ॥४०॥ सन्तो भवन्तः स्वकरावलम्बं यदि प्रदास्यन्ति मम प्रसन्नाः । खला बलात् कारितमौनमुद्राः सारं करिष्यन्ति न दोषदानम् ॥४१॥ खलायतु बलाद् ग्रन्थे दूषणोद्घाटनानि च । सनिसर्गोऽत्र मौनं सत्तन्मध्येऽहमनुग्रहम् ॥४२॥ इति श्रीजयरत्नपण्डि[तविरचिते ज्वरपराजयनामको ग्रन्थः सम्पूर्णः । संवत् १८९३ फाल्गुणमासे असितैकादश्यां कुजे श्री १०८ श्रीमद्विमलचन्द्राचार्य्यस्य शिष्येण श्री १०८ श्रीमद्रामचन्द्राचार्य्यस्य लघुभ्रात्रा विहारिनाममुनिना लुकोत्तरार्द्रसिंहराजगच्छीयेन सुढौराख्यनिगमे लिखितम् । [6448 ] आदिः- शिवं प्रणम्य वागीशं धन्वन्तरिमथाश्विनौ । क्रियते टोडरानन्दे ग्रन्थः सद्वैद्यसम्मतः ॥१॥ दिशन्तु शं केशवशङ्कराद्या देवाः सुदेव्योऽध्यगसम्भवाद्याः । श्रीटोडरेन्द्रे नृपतौ सुमूत्तौं धर्मस्य भूमौ परिरक्षके च ॥२॥ मान्धातृदुःकुन्तसुतादिभिर्या पूर्वं कृता पद्धतिरद्य येन । मूर्दाभिषिक्तालिकभूषणेन समुद्धृता श्रीवरटोडरेण ॥३॥ भूदेवदेवान् भुवि दानयज्ञैः संतोष्य साधूनथ सर्ववर्णान् । कामैरनेकैश्च विलोक्य रुग्णानाज्ञापयद्रुग्विज ये नरेन्द्रः ॥४॥ प्राचीनशास्त्राणि सुदुर्गमानि भिन्नप्रमेयानि निरीक्ष्य सम्यक् । एकत्र सर्वं भवता सुबोधं मतं कृतं टोडरमल्लभूपैः ।।५।। श्रीटोडरो नृपवरो रसालंकारसन्मणिः । गृहीतदेहो लोकस्य रक्षार्थमिति मे मतिः ॥६॥ साधूनां रक्षिता नूनमसाधूनां विमर्दनः । तदाज्ञया सुश्रुतादिसारमुद्धृत्य सादरम् ॥७॥ निबद्धयते हितं सर्व विशदाधारनिर्मलम् । ग्रन्थेऽस्मिन् टोडरानन्दे सर्वार्थपरिबृंहितम् ॥८॥ . [6451] अन्तः- सुधीरभूत् संसदि भूपतीनां सम्मानभाग नागरवंशजन्मा । दोषज्ञमान्यः सुकविः कलावान् दयानिधानो भुवि देवराजः ॥३२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy