SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ४१८] ___ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे राजानः प्रतिबोधिताः कति कति ग्रन्थाः स्वयं निर्मिताः वादीन्द्राः कति निर्जिताः कति तपास्युप्राणि तप्तानि च । श्रीमद्धर्मपुरीयगच्छमुकुटैः श्रीसूरिसूत्रामभि स्तच्छिप्यै निभिश्च वेत्ति नवरं वागीश्वरस्तन्मितम् ॥४९॥ तद्गच्छेऽभयदेवसूरिसुगुरोः श्रीकर्णभूपेन यत् सञ्ज्ञा सन्मलधारिणोऽपि मलधारीति स्वयं निर्मिता । तद्वंशेऽमरचन्द्रसूरिरभवत् सच्छास्त्रसंगीतभृत् तस्मात् श्रोतिलकाभिधो गुरुरभूद् यदत्तदीक्षरत्वहम् ॥५०॥ तत्पट्टादिरविश्चिरं विजयतां सन्मार्गसंदर्शकः सूरीन्द्रः किल राजशेखरगुरुर्वादीभपञ्चाननः । शिष्यस्तस्य पुनः सुधाकलश इत्याख्यां दधानो व्यधात् संगीतोपनिषत्सुसारमखिलं विज्ञानिसौख्याय यत् ॥५१॥ तावद् दुर्वादिसंवादतापव्यापः कथं कुतः । श्रीजैनशासने यावत् सुधाकुम्भो विजृम्भते ॥५२॥ संगीतोपनिषद्ग्रन्थं खाष्टाग्नि-शशि(१३८०)वत्सरे । ऋतु-शून्य-युगेन्द्वाब्दे (१४०६) तत्सारं चापि निर्ममे ॥५३॥ इति मलधारिगच्छमण्डनवादीन्द्रश्रीराजशेखरसूरि-शिष्यवाचना[ चार्यश्रीसुधाकलशविरचिते स्वोपज्ञसंगीतोपनिषत्सारोद्वारे नृत्यपद्धतिप्रकाशनो नाम षष्ठोऽध्यायः ।। संवत् १५९९ वर्षे पूर्णिमागच्छे श्री६पुण्यप्रभसूरीणां शिष्यभीमाकेनेदं संगीतशास्त्रमलेखि ॥ [6445] आदिः- त्रैलोक्याधिपति नमत्सुरपतेः कोटीररुग्मञ्जरी रञत्पादसरोरुहं गुणगणाम्भोधिं दयाद्याकरम् । रागद्वेषमुखान् जयन्तमखिलारीनात्मभक्तेप्सितं यच्छन्तं प्रणमामि मङ्गलनिधिं श्रीदेवदेवं सदा ॥१॥ सकलसुखनिधानं ज्ञानपीयूषसिन्धु भ्रमरमधुरगुञ्जारावराजत्कपोलम् । अखिलभुवननाथं बालधर्मांशुवर्ण करधृतपरशुं तं नागवक्त्रं नमामि ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy