SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ mM प्रशस्त्यादिसंग्रहः । शाके वस्वङ्कवेदाञ्चकपरिगणिते धातृसंवत्सरेऽस्मिन् आषाढे कृष्णपक्षे शशधरसुदिने पञ्चमीरेवतीभे । नागाम्बा-धर्मसूनुद्विजवरतिलको विट्ठलोऽस्तीह विद्वां स्तेनेयं रागमाला रसिकजनगणे भूषणार्थं कृताऽस्ति ॥२५॥ इति श्रीकर्णाटकजातीयपुण्डरीकविठ्ठलविरचिता रागमाला सम्पूर्णा ॥ लिखितं ब्राह्मणरामचन्द्रेण संवत् १८९७ फा०कृ०४ । [6365] आदिः- आनन्दनिर्भरपुरन्दरपङ्कजाक्षीनाट्यक्षणत्रुटितहारलताविमुक्तैः । मुक्ताफलैः किल दिवापि विसर्पितारा यद्देशनावनिरभूत् स जिनः श्रिये वः ॥१॥ विश्वस्य संशयमयज्वलनो ग्रहेतिनिपिणाय किल या वहते करेण । प्रौढं कमण्डलुमहो अमृताभिपूर्णं सा भारती भवतु वः श्रुतदानवीरा ॥२॥ न क्रूरकुग्रहधराय नदीश्वराय नात्यन्ततापविषमाय दिवाकराय । नोद्यत्कलङ्ककलुषाय निशाकराय तस्मै नमोऽस्तु गुरवे गुरुवैभवाय ॥३॥ शैलात्मजाकोहलदन्तिलाबैरन्यैश्च भोजप्रमुखैः प्रणीतान् ।। सद्ग्रन्थसार्थान् परिषेव्य सम्यग् वितन्यते सानुभवं च किञ्चित् ॥४॥ तद्गीतं स्तुमहे यस्माद् रावणोऽपि निशाचरः। त्रैलोक्यविजयी जातो हरात् प्राप्य वरं वरम् ॥५॥ गीतस्वादाऽनभिज्ञेभ्यो मनुष्येभ्यो वरं मृगाः । गीतस्वादेन ददते गातुः प्राणान् क्षणेन ये ॥६॥ गीताहादनिलीनाश्च देवा नागादयस्तथा ।। अनेहसमसंख्यातं गतं चापि न जानते ॥७॥ देशे देशे च यत्सिद्धं नृपाणामपि मन्दिरे । गीतं वाद्यं च नृत्यं च देशीति प्रोच्यते बुधैः ॥८॥ सर्वेषामपि लोकानां गीतं प्रीतिदमुच्यते । अत एव पुरा गीतं मुख्यत्वादुच्यते मया ॥९॥ अन्त:-- बध्नीत धृति विबुधाः पण्डितजनवल्लभार्थबद्धेऽस्मिन् । संगीतोदधिसारे सुशास्त्ररत्ने निरुपमाने ॥४७॥ बुधपितृसोमालादिनी तदर्शनजातसुरसकल्लोले । क्रीडत संगीताब्धावेतद्वाक्यप्रवहणेन ॥४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy